________________
पञ्चमाध्यायस्य तृतीयः पादः ॥
२०७
[उपघातोऽन्यः ] उपहन्यते = उपघातोऽन्यः । 'भावा-ऽकोंः' (५।३।१८) घप्र० → अ । 'ञ्णिति' घात्' (४।३।१००) घात् । निपातनादेवोपात्तार्थविशेषे वृत्तिरसरूपप्रत्ययबाधनं च विज्ञायते ॥छा।
मूर्ति-निचिता-ऽभ्रे घनः ॥५।३।३७ ॥ [मूत्तिनिचिताऽभ्रे ] मूर्त्तिश्च निचितश्च अभ्रं च = मूर्तिनिचिताऽभ्रम्, तस्मिन् । [घनः] घन प्रथमा सि ।
मूर्त्तिः - काठिन्यम् - [अभ्रस्य घनः] अभ्र षष्ठी ङस् । हन्यते-ज्ञायते कठिनतयेति घनः । अनेन अलप्र० - घनादेशश्च, काठिन्यमित्यर्थः ।
[दधिधनः ] दध्नो घनः = दधिघनः । [लोहघनः] लोहस्य घनः = लोहघनः ।
निचितं-निरन्तरम् - [घनाः केशाः, घना व्रीहयः] हन्यन्ते निषि(चि)तयेति घनाः केशाः - व्रीहयो वा । अनेन अल्प्र० घनादेशश्च ।
अभ्रं - मेघः [घनः] हन्यते वायुनेति घनः । अनेन अलप्र० - घनादेशश्च । कथं घनं दधि ? गुणशब्दोऽयं, तद्योगाद् गुणिन्यपि वर्त्तते ॥छ।।
व्ययो-द्रोः करणे ॥५।३।३८ ॥
[ व्ययोद्रोः] विश्च अयस् च दुश्च = व्ययोद्रु, तस्मात् । [करणे] करण सप्तमी ङि । भावस्य कारकान्तरस्य चानुप्रवेशो मा भूदिति करणग्रहणम् । [विघनः] विहन्यतेऽनेन तिमिरं = विघनः । अनेन अलप्र० - घनादेशश्च । [विघनेन्दुसमद्युतिः] विघनो योऽसौ इन्दुः तद्वत् समा(म)द्युतिर्यस्य सः । [विघनः ] वयः - पक्षिणो हन्यन्तेऽनेनेति विघनः ।
[अयोधनः] अयस् 'हनंक हिंसा-गत्योः' (११००) हन् । अयो हन्यतेऽनेनेति अयोधनः । अनेन अल्प्र० - घनादेशश्च ।
[द्रुघनः कुठारः] दुर्हन्यतेऽनेनेति द्रुघनः कुठारः । अनेन अलप्र० - घनादेशश्च । स्त्रियां तु परत्वादनडेव
[विहननी] विहन्यतेऽनेनेति विहननी । 'करणा-ऽऽधारे' (५।३।१२९) अनट्प्र० → अन । 'अणजेयेकण्'० (२।४।२०) ङी।
[अयोहननी] अयो हन्यतेऽनेनेति अयोहननी । 'करणा-ऽऽधारे' (५।३।१२९) अनट्प्र० → अन । 'अणजेयेकण्'० (२।४।२०) ङी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org