SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २०४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [पशौ] पशु सप्तमी ङि। [समजः पशूनाम् ] 'अज क्षेपणे च' (१३९) अज्, संपूर्व० । समजनं = समजः, पशूनां समूह इत्यर्थः । अनेन अल्प्र० → अ। [उदजः पशूनाम् ] अज्, उत्पूर्व० । उदजनं = उदजः, पशूनां प्रेरणमित्यर्थः । अनेन अल्प्र० → अ । [व्याजः पशूनाम् ] व्यजनं = व्याजः । 'भावा-ऽकों:' (५।३।१८) घञ्प्र० -→ अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । [समाजः साधूनाम् ] समजनं = समाजः । 'भावा-ऽकोंः' (५।३।१८) घञ्प्र० → अ । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः आ । [उदाजः खगानाम् ] उदजनं = उदाजः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ ॥छ।। स-ग्लहः प्रजना-ऽक्षे ॥५३।३१ ॥ [सृग्लहः] सृश्च ग्लह् च = सृग्लह, तस्मात् । [प्रजनाऽक्षे] प्रजनं च(प्रजनश्च) अक्षश्च = प्रजनाऽक्षम्, तस्मिन् । [गवामुपसरः] 'सुं गतौ' (२५) सृ । उपसरणं = उपसरः । अनेन अल्प्र० → अ । 'नामिनो'० (४।३।१) गु० अर् । [पशूनामुपसरः] उपसरणं = उपसरः । अनेन अल्प्र० → अ । 'नामिनो'० (४।३।१) गु० अर् । प्रजनो गर्भग्रहणम्, तदर्थं स्त्रीषु पुंसां प्रथमं सरणमुपसर उच्यते । [अक्षाणां ग्लहः ] 'ग्लहौङ् ग्रहणे' (८७२) ग्लह । ग्लहणं अथवा ग्रहणं = ग्लहः । अनेन अल्प्र० → अ । ग्रहेरेतन्निदर्शनाल्लत्वम्, ग्लहिः प्रकृत्यन्तरं वा । [उपसारो भूत्यै राज्ञाम्] उपसरणं = उपसारः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ ॥छ।। पणेर्माने ॥५।३।३२ ॥ [पणेः] पणि पञ्चमी ङसि । [माने] मान सप्तमी ङि । [मूलकपणः] 'पणि व्यवहार-स्तुत्योः' (७१०) पण् । पण्यते-पणाय्यत इति वा = पणः । अनेन अल्प्र० → अ । मूलकस्य पणः = मूलकपणः । [शाकपणः] पण् । पण्यते-पणाय्यत इति वा = पणः । अनेन अल्प्र० → अ । शाकस्य पणः = शाकपणः । [पणः ] पण्यत इति पणः । अनेन अल्प्र० → अ । मूलकादीनां संव्यवहारार्थं परिमितो मुष्टिरित्यर्थः । [पाणः ] पणनं = पाणः । 'भावा-ऽकोंः' (५।३।१८) घप्र० → अ । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धि: आ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy