SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य तृतीयः पादः ।। २०३ [ग्रहः ] 'ग्रहीश् उपादाने' (१५१७) ग्रह् । ग्रहणं = ग्रहः । अनेन अल्प्र० → अ । [वारः समूहः ] 'वृगट् वरणे' (१२९४) वृ । वरणं = वारः । बहुलाधिकारात् 'भावा-ऽकोंः ' (५।३।१८) घप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर्, समूहः । [वारोऽवसरः] 'वृग्ट् वरणे' (१२९४) वृ । वरणं = वारः । बहुलाधिकारात् 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर्, अवसरः । [वारः क्रियाभ्यावृत्तिः] 'वृकुट् वरणे' (१२९४) वृ । वरणं = वारः । बहुलाधिकारात् 'भावा-ऽकोंः' (५।३।१८) घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर्, क्रियाभ्यावृत्तिः । [परिवारः] परि-वृ । परिवृण्वन्तं प्रयुङ्क्ते । 'प्रयोक्त'० (३।४।२०) णिगप्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । परिवारणं = परिवारः । 'अच्' (५।१।४९) अच्प्र० → अ । 'णेरनिटि' (४।३।८३) णिग्लुक् ॥छ।। वर्षादयः क्लीबे ॥५।३।२९ ॥ [वर्षादयः] वर्ष आदिर्येषां ते = वर्षादयः । [क्लीबे] क्लीब सप्तमी ङि । नपुंसके क्ताऽनड्निवृत्त्यर्थं वचनम् । किं वर्षणमिति न भवति ? भवत्येव - वृषभो वर्षणादिति भाष्यकारवचनात् । [वर्षम् ] जिषू (५२२) - विषू (५२३) - मिषू (५२४) - निषू (५२५) - पृषू (५२६) - 'वृषू सेचने' (५२७) वृष् । वृष्टिवर्षम् । [भयम् ] जिभीक् भये' (११३२) भी । भीतिर्भयम् । [धनम् ] स्तन (३२३) - ‘धन शब्दे' (३२४) धन् । धननं = धनम् । [वनम् ] 'वन संभक्तौ' (३२९) वन् । वननं = वनम् । [खलम् ] 'खल संचये च' (४४९) खल् । खलतिः = खलम् । [पदम् ] 'पदिच् गतौ' (१२५७) पद् । पन्नः = पदम् । अनेन अल्प्र० → अ निपात्यते । [ युगम् ] 'युपी योगे' (१४७६) युज् । योजनं = युगम् । अत्र रथाङ्ग-कालविशेष-युग्मेष्वल्-गत्वगुणाभावौ च निपातनात् । [वृष्टं मेघेन] वृष्यते स्म = वृष्टं मेघेन । अत्र भावे 'तत् साप्याऽनाप्यात् कर्म-भावे, कृत्य-क्त-खलाश्च' (३।३।२१) क्तप्र० → त । 'तवर्गस्य श्चवर्ग'० (१।३।६०) त० → ट० । [भीतं बटुना] भीयते स्म = भीतं बटुना । अत्र भावे 'तत् साप्याऽनाप्यात्'० (३।३।२१) क्तप्र० → त ॥छ।। समुदोऽजः पशौ ॥५।३।३० ॥ [समुदः] सम् च उद् च = समुद्, तस्मात् । [अजः] अज् पञ्चमी ङसि । Jain Education International For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy