SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य द्वितीयः पादः॥ १६१ णकारो वृद्ध्यर्थः । घकार उत्तरत्र कत्व-गत्वार्थः । [ अरण्यं भ्रमिता] अरण्य द्वितीया अम् । भ्राम्यतीत्येवंशीलः = भ्रमिता । 'तन् शील-धर्म-साधुषु' (५।२।२७) तृन्प्र० → तृ० । 'स्ताद्यशि'० (४।४।३२) इट् । प्रथमा सि ॥छ।। युज-भुज-भज-त्यज-रञ्ज-द्विष-दुष-द्रुह-दुहा-ऽभ्याहनः ॥ ५।२।५० ॥ [युजभुजभजत्यजरञ्जद्विषद्रुहदुहाऽभ्याहनः] युजश्च भुजश्च भजश्च त्यजश्च रञ्जश्च द्विषश्च दुषश्च द्रुहश्च दुहश्च अभ्याहन् च = युजभुजभजत्यजरअद्विषदुषद्रुहदुहाऽभ्याहन्, तस्मात् । [योगी ] 'यजंपी योगे' (१४७६) युज् । 'युजिच समाधौ' (१२५४) युज् । युनक्ति - युज्यते वा इत्येवंशीलः = योगी । अनेन घिनण्प्र० → इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'क्तेऽनिटश्च-जोः क-गौ घिति' (४।१।१११) ज० → ग० । [भोगी] 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भुङ्क्ते-भुनक्ति-भुजतीति वा शीलः = भोगी। अनेन घिनणप्र० → इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'क्तेऽनिटश्च-जोः'० (४।१।१११) ज० → ग० । [भागी] 'भजी सेवायाम्' (८९५) भज् । भजतीत्येवंशीलो भागी । अनेन घिनणप्र० → इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । क्तेऽनिटश्च-जोः'० (४।१।१११) ज० → ग० । सकर्मकादपि अभिधानात् घिनण् यथा - [कल्याणभागी] कल्याणं भजतीत्येवंशीलः = कल्याणभागी । अनेन घिनण्प्र० → इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'क्तेऽनिटश्च-जोः क-गौ घिति' (४।२।१११) ज० → ग० । [त्यागी] 'त्यजं हानौ' (१७२) त्यज् । त्यजतीत्येवंशीलः = त्यागी । अनेन घिनणप्र० →इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'क्तेऽनिटश्च-जोः'० (४।१।१११) ज० → ग० । [प्राणत्यागी] प्राणान् त्यजतीत्येवंशीलः = प्राणत्यागी । अनेन घिनणप्र० →इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'क्तेऽनिटश्च-जोः'० (४।१।१११) ज० → ग० । [रागी] 'रञ्जी रागे' (८९६) रञ्जु । रजतीत्येवंशीलः = रागी । अनेन घिनणप्र० →इन् । 'अकट-घिनोश्च रजेः' (४।२।५०) नलुक् । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः आ । 'क्तेऽनिटश्च-जोः'० (४।१।१११) ज० → ग० । [द्वेषी ] 'द्विषींक् अप्रीतौ' (११२६) द्विष् । द्वेष्टीत्येवंशीलः = द्वेषी । अनेन घिनण्प्र० → इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए। [दोषी] 'दुषंच् वैकृत्ये' (१२०९) दुष् । दुष्यतीत्येवंशीलः = दोषी । अनेन घिनणप्र० → इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ। [ द्रोही ] 'द्रुहौच जिघांसायाम्' (१२३९) दुह् । द्रुह्यतीत्येवंशीलः = द्रोही । अनेन घिनण्प्र० → इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । [दोही ] 'दुहींक् क्षरणे' (११२७) दुह् । दोग्धीत्येवंशीलः = दोही । अनेन घिनणप्र० → इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ। [अभ्याघाती] अभि-आपर्व'. 'हनंक् हिंसा-गत्योः' (११००) हन् । अभ्याहन्तीत्येवंशीलः = अभ्याघाती । अनेन घिनणप्र० → इन् । 'ञ्जिति घात्' (४।३।१००) "घात्"आदेशः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy