SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ११० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [पार्श्वशायी] पार्श्व 'शीङ् स्वप्ने' (११०५) शी । पार्वाभ्यां शेते = पार्श्वशायी । अनेन णिन्प्र० → इन् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० ऐ । 'एदैतोऽयाय् (१।२।२३) आय' । प्रथमा सि । 'इन्-हन्' (१।४।८७) दीर्घः । 'दीर्घङ्याब्०' (२४|४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२११२९१) नलुक् ।' तदन्यवर्जमिह व्रतं गम्यते । आभीक्ष्ण्ये- [ क्षीरपायिण उशीनराः] क्षीर 'पां पाने' (२) पा । पुनः पुनः क्षीरं पिबन्ति = क्षीरपायिण उशीनराः । [तक्रपायिणः सौराष्ट्राः ] पुनः पुन: तक्रं पिबन्ति = तक्रपायिणः सौराष्ट्राः । [कषायपायिणो गान्धाराः] पुनः पुनः कषायं पिबन्ति = कषायपायिणो गान्धाराः । [सौवीरपायिणो बालीकाः] पुनः पुनः सौवीरं पिबन्ति = सौवीरपायिणो बालीकाः । सर्वत्र अनेन णिन्प्र० → इन् । 'आत ऐः कृऔ' (४।३।५३) आ० → ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । प्रथमा जस् । णत्वम् । [स्थण्डिलशयः ] स्थण्डिले शेते = स्थण्डिलशयः । 'आधारात्' (५।१।१३७) अप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [कुल्माषखादाश्चौराः] कुल्माष 'खादृ भक्षणे' (२९४) खाद् । कुल्माषान् पुनः पुनः खादन्तीति कुल्माषखादाश्चौराः। 'कर्मणोऽण्' (५१।७२) अण्प्र० । प्रथमा जस् । अशीला) जात्यर्थं च वचनम् ॥छा। __करणाद् यजो भूते ॥ ५।१।१५८ ॥ [करणात्] करण पञ्चमी ङसि । [यजः] यज् पञ्चमी ङसि । [भूते ] भूत सप्तमी ङि। [अग्निष्टोमयाजी] अग्निष्टोम 'यजी देवपूजा-सङ्गतिकरण-दानेषु' (९९१) यज् । अग्निष्टोमेनेष्टवान् = अग्निष्टोमयाजी । अनेन णिन्प्र० → इन् । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः आ । प्रथमा सि । 'इन्-हन्-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । 'दीर्घयाब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । [गुरूनिष्टवान्] गुरु द्वितीया शस् । 'यजी देवपूजा-सङ्गतिकरण-दानेषु' (९९१) यज् । यजति स्म = इष्टवान् । 'क्त-क्तवतू' (५।११७४) क्तवतुप्र० → तवत् । 'यजादि-वचेः किति' (४।१९७९) वृत् य० → इ० । 'यज-सृज-मृजराज-भ्राज-भ्रस्ज-व्रस्च-परिव्राजः शः षः' (२।१८७) ज० → ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० । प्रथमा सि । 'ऋदितः' (१।४।७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घझ्याब' (१।४।४५) सिलुक । 'पदस्य' (२।१।८९) तलुक् छ।। निन्द्ये व्याप्यादिन् विक्रियः ॥ ५।१।१५९ ॥ [निन्द्ये] निन्द्य सप्तमी ङि । [व्याप्यात् ] व्याप्य पञ्चमी ङसि । [इन् ] इन् प्रथमा सि । 'दीर्घङ्याब्-व्यञ्जनात् सेः' (१।४।४५) सिलुक् । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy