SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । [उल्लाघः] 'लाघृङ् सामर्थ्य' (६४३) लाघ, उत्पूर्व० । उल्लाघ्यते स्म । 'क्त-क्तवतू' (५।११७४) क्तप्र० → त । अनेन तस्य लोपः - उल्लाघः निपातः । नीरोगः । [कृशः] ‘कृशच् तनुत्वे' (१२०७) कृश् ।+ कृश्यते स्म । 'गत्यर्था०' (५।१।११) क्तप्र० --> त । अनेन तलोपः - इडभावश्च निपात्यते । [परिकृशः] ‘कृशच तनुत्वे' (१२०७) कृश्, परिपूर्व० ।* परिकृश्यते स्म । 'गत्यर्थाऽकर्मक०' (५1१1११) क्तप० → त । अनेन तकारलोपः - इडभावश्च निपात्यते । [फुल्लः] दल (४१३) - ‘ञिफला विशरणे' (४१४) फल् । फलति स्म । 'ज्ञानेच्छा-ऽर्चार्थ-जीच्छील्यादिभ्यः०' (५।२।९२) क्तप्र० → त । [उत्फुल्लः ] उत्फलति स्म । 'ज्ञानेच्छा-ऽर्चार्थ०' (५।२।९२) क्तप्र० → त । [संफुल्लः] संफलति स्म । 'ज्ञानेच्छा-ऽर्चार्थ०' (५।२।९२) क्तप० → त । सर्वत्र अनेन तस्य लादेशो भावारम्भविवक्षायामिडभावश्च निपात्यते, यतो 'नवा भावा-ऽऽरम्भे' (४।४।७२) इति सूत्रेण इट् प्राप्नोति । केचित् तु क्षीबवान् इत्यादि क्तवतुप्रत्ययान्तस्य तस्य बत्वं अकारान्तत्वं निपातयन्ति । [प्रक्षीबितः] प्रक्षीब्यते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० → त । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । घितः] प्रोल्लाघ्यते स्म । 'क्त-क्तवतू' (५।११७४) क्तप्र० → त । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) [प्रकृशितः] प्रकृश्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । ‘स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । [संपरिकृशितः] संपरिकृश्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । [प्रफुल्लः ] प्रफुल्ल्यते स्म । 'क्त-क्तवतू' (५।११७४) क्तप्र० → त । 'आदितः' (४।४७१) इट्प्रतिषेधः । [फलितः] ‘फल निष्पत्ती' (४२८) फल् । फलति स्म । ‘गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । [फलितवान्] फलति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । क्षीबादयः शब्दाः केनाचापि च सिध्यन्ति, क्षीबित इत्यादि रूपनिवृत्त्यर्थं तु वचनम । [प्रक्षीबः] प्रगतः क्षीबः ।।छ।। P.' उल्लाघते स्म । P. + कृश्यति स्म । P. * परिकृश्यति स्म । 9 धातुपारायणे - प्रफुल्ल इत्यत्र यः प्रशब्द: स क्रियान्तरयोगात् फुल्लिं प्रत्यनुपसर्ग एव, 'यत्क्रियायुक्ताः पादयस्तं प्रत्येवोपसर्गसंज्ञा' (न्यायसंग्रह: वक्षस्कारः (२) | सूत्र-५१) इति वचनात् प्रगतः फुल्लः = प्रफुल्लः इति प्रादिसमासः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy