________________
अथ चतुर्थाध्यायस्य द्वितीयः पाद: ।।
६७
भित्तं शकलम् ।।४।२।८१।।
[भित्तम्] भित्त प्रथमा सि । [शकलम् शकल प्रथमा सि ।
[भित्तं शकलमित्यर्थः] 'भिदूंपी विदारणे' (१४७७) भिद् । भिद्यते स्म । 'क्त-क्तवतू' (५।१११७४) क्तप्र० → त । अनेन भित्तं निपातः, शकलमित्यर्थः । एवं "भिन्न-भित्तम्" । प्रथमे 'रदादमूर्छ-मदः क्तयोर्दस्य च' (४२१६९) द-त० → न० । सि-अम् ।छ।।
वित्तं धन-प्रतीतम् ।।४।२८२।।
[वित्तम] वित्त प्रथमा सि ।
[धनप्रतीतम] धनं च + प्रतीतं च = धनप्रतीतम् ।
[वित्तं धनम्] 'विद्रोंती लाभे' (१३२२) विद् । विद्यते-लभ्यते इति वित्तं धनम् । अनेन नत्वाभावः । 'अघोषे प्रथमोऽशिटः' (१।३।५०) द० → त० ।
. वित्तः प्रतीतः] विद्यते-उपलभ्यतेऽसाविति वित्तः प्रतीतः । अनेन नत्वाऽभावः । 'अघोषे प्रथमोऽशिटः' (१३५०) द० → त० ।
[विदितम्] 'विदक् ज्ञाने' (१०९९) विद् । विद्यते स्म । 'क्त-क्तवतू' (५।१११७४) क्तप्र० → त । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् ।
[विन्नम्, वित्तम्] 'विदिप विचारणे' (१४९७) विद् । विद्यते स्म । 'क्त-क्तवतू' (५।११७४) क्तप्र० → त । 'ऋही-घा०' (४।२७६) विकल्पेन तस्य न० । 'अघोषे प्रथमोऽशिटः' (११३५०) द० → त० ।
[विन्नम्] 'विदिंच सत्तायाम्' (१२५८) विद् । विद्यते स्म । क्तप्र० । ‘रदादमूर्च्छ-मदः क्तयोर्दस्य च' (४।२।६९) द०-त० → न० ।
वित्तं धन(ने) प्रतीते च विन्दतेर्विन्नमन्यत्र ।।छ।।
हु-धुटो हेधिः ।।४।२।८३।। [हुधुटः] हुश्च धुट् च = हुधुट, तस्मात् । [हे:] हि षष्ठी डस् । [धिः धि प्रथमा सि ।
[जुहुधि] 'हुंक् दाना-ऽदनयोः' (११३०) हु । पञ्चमी हि । 'हवः शिति' (४।१।१२) “हु''द्वि: । 'ग-होर्जः' (४।१।४०) ह० → ज० । अनेन हि० → धि० ।
[छिन्द्रि] 'छिद्रूपी द्वैधीकरणे' (१४७८) छिद् । पञ्चमी हि । ‘रुधां स्वराच्श्नो नलुक् च' (३।४।८२) श्नप्र० → P. 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० । P. + प्रतीतश्च ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org