________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
viewewana
Nahane
[यतिः] यमनं = यतिः ।
[रतिः] रमणं = रतिः ।।
[ततिः] तननं = ततिः । सर्वत्र 'स्त्रियां क्तिः ' (५।३।९१) क्तिप्र० -> ति । 'यमि-रमि नमि-गमि-हनि०' (४।२१५५) म-नलोपः । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः ॥छ।।'
आः खनि-सनि-जनः ।।४।२।६०।।
[आः] आ प्रथमा सि ।
[खनिसनिजनः] खनिश्च सनिश्च जन च = खनिसनिजन, तस्य ।
[खातः] 'खनूग अवदारणे' (९१३) खन् । खन्यते स्म । 'क्त-क्तवत्' (५1१1१७४) तप०
→ त ।
[खातवान] खनते स्म । 'क्त क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । [खात्वा] खननं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा ।
[खातिः] खननं = खातिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । अनेन न० → आ० ।
[सातः] 'षणूयी दाने' (१५००) षण् । वन (३२९) - पण संभक्तौ' (३३०) षण् । 'षः सोऽष्ट्यै-ष्टिव-प्वप्कः' (२।३।९८) सन् । सायते स्म । 'क्त-क्तवतू' (५1५1१७४) क्तप्र० →त ।
[सातवान्] सनोति स्म । 'क्त-क्तवतू' (4191१७४) क्तवतुप्र० -> तवत् ।
[सात्वा] सननं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा ।
[सातिः] सननं = सातिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० →ति । अनेन न० → आ० ।
[जातः] 'जनैघि प्रादुर्भावे' (१२६५) जन् । जायते स्म । 'श्लिष-शीङ्-स्था-ऽऽस बस-जन-रुह-जू-भजेः क्तः' (५।१।९) क्तप्र० →त ।
[जातवान् जायते स्म । 'क्त-क्तवतू' (५।११७४) क्तवतुप्र० → तवत् ।
[जात्वा] जननं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप० - त्वा ।
[जातिः] जायतेऽभिधानप्रत्ययौ अस्यामिति जातिः । 'श्वादिभ्यः' (५।३।९२) क्तिप्र० → ति । अनेन न० → आ० ।
चन्ति खन् । भृशं पुनः पुनर्वा खनति । 'व्यञ्जनादेरेकस्बराद' (३।४।९) यप० । 'सन्-यडश्च' (४।१।३) द्विः । 'द्वितीय-तुर्ययोः पूर्वो' (४।१।४२) ख० →क० । क-डश्च-ज' (४।११४६) क० --> च० । 'मुरतोऽनुनासिकस्य' (४।१५१) मोऽन्तः । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । वर्त्तः तिव् । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) म० → ड० ।
संसन्ति सन् । भृशं पुनः पुनर्वा सनोति । 'व्यञ्जनादेरेकस्वराद०' (३।४।९) यड्प० । 'सन्-यडश्च' (४।१।३) द्विः । 'मुरतोऽनुनासिकस्य' (४।१।५१) मोऽन्तः । ‘बहुलं लुप्' (३।४।१४) यड्लुप् । वर्त्तः तिव् । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१३३१) म० → न० ।
--
म धातुपारायणादिषु - ‘षन भक्तौ' ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org