________________
अथ चतुर्थाध्यायस्य द्वितीयः पादः ॥
सुक्षत्] 'क्षणूग(यी) हिंसायाम्' (१५०१) क्षण, सुपूर्व० । सुष्टु क्षणोतीति क्विप् । अनेन नलोपः । 'हस्वस्य०' (४|४|११३) तोऽन्तः ।
(विक्षत्] 'क्षणूग(यी) हिंसायाम्' (१५०१) क्षण, विपूर्व० । विशेषेण क्षणोतीति क्विप् । अनेन नलोपः । 'हूस्वस्य०' (४।४।११३) तोऽन्तः । सर्वत्र ‘अप्रयोगीत' (१1१1३७) क्विपलोपः ।
[अग्रेगू:] अग्रे-गम् । अग्रे गच्छतीति । 'भ्रमि-गमि-तनिभ्यो डित्' (उणा० ८४३) डिद् ऊप० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अमलोपः ।
मध्यस्थस्य गमो ग्रहणादग्रेतनायां पाश्चात्यानां च धातूनां ग्रहणम, तर्हि यमामिति कृत्यमति न वाच्यम, विचित्रा सूत्राणामित्यस्य विद्यमानत्वात्, तेन गमसहचरिता एव यमः प्रभृतयो गृह्यन्ते ।।छ।।
न तिकि दीर्घश्च ।।४।२५९।।
[न न प्रथमा सि ।
[तिकि] तिक् सप्तमी ङि ।
[दीर्घश्च] दीर्घ प्रथमा सि । 'सो रुः' (२११७२) र० । च प्रथमा सि । 'च-ट-ते सद्वितीये' (११३७) र०
→
श० ।
[यन्तिः] 'यमूं उपरमे' (३८६) यम् । यम्यादित्याशास्यमानः = यन्तिः ।
[रन्तिः] 'रमिं क्रीडायाम्' (९८९) रम् । रंसीष्ट इत्याशास्यमानः = रन्तिः । नन्तिः] नम्यादित्याशास्यमानः = नन्तिः ।
[गन्तिः] गम्यादित्याशास्यमानः = गन्तिः ।
[हन्तिः] हन्यादित्याशास्यमानः = हन्तिः ।
[मन्तिः] मंसीष्ट इत्याशास्यमानः = मन्तिः । [वन्तिः] वन्यादित्याशास्यमानः = वन्तिः । तन्तिः] तन्यादित्याशास्यमानः = तन्तिः ।
[क्षन्तिः] 'क्षणग(यी) हिंसायाम्' (१५०१) क्षण् । क्षण्यादित्याशास्यमानः । सर्वत्र ‘तिक्कृतौ नाम्नि' (५।१७१) तिक्प० → ति । म्नामिति बहुवचनाण्णत्वं कृतमपि वर्गान्ते कर्तव्ये निवर्त्तते । अन्तलोपे प्रतिषिद्धे 'अहन्पञ्चम०' (४।१1१०७) इत्यादिना दीर्घत्वं प्राप्तं तदपि प्रतिषिध्यते ।
[शान्तिर्भगवान] 'शमू उपशमे' (१२३०) शम् । अशिवं शम्यादित्याशास्यमानः = शान्तिः । 'तिक्कृती नाम्नि' (५1१७१) तिप्र० → ति । 'अहन्पञ्चमस्य क्वि-क्डिति' (४।१।१०७) दीर्घः । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१३।३९) म० → न० । भग । भगो ज्ञानं विद्यते यस्याऽसौ भगवान् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'मावर्णान्तो०' (२।१।९४) म० → व० । 'अभ्वादेरत्वसः सौ' (१।४।९० दीर्घः । 'दीर्घड्याव०' (१।४।४५) सिलोपः । ‘पदस्य' (२११८९) तलोपः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org