________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
वा म इति वचनात् मान्तानामेवाऽयं विधिः ।
[प्रयत्य, प्रयम्य] प्र-यम् । प्रयमनं पूर्वम् ।
[विरत्य, विरम्य] वि-रम् । विरमणं पूर्वम् ।
[प्रणत्य, प्रणम्य] प्र-नम् । प्रणमनं पूर्वम् ।
[आगत्य, आगम्य आ-गम् । आगमनं पूर्वम् । सर्वत्र ‘प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५) यप् । अनेन वा मलोपः ।
___ [प्रशम्य] 'शमू उपशमे' (१२३०) शम्, प्रपूर्व० । प्रशमनं पूर्वम् । ‘प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् ||छ।।
गमां क्वौ ।।४।२५८॥ [गयाम्] गम् षष्ठी आम् । [क्वौ] क्वि सप्तमी ङि ।
[कलिङ्गत्] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - 'गम्लुं गतौ' (३९६) गम् । कलिं गच्छतीति कलिङ्गत् । गच्छतीति क्विप् । 'क्विप्' (५।१।१४८) क्विप्प० । अनेन मलोपः । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । ‘अप्रयोगीत्' (१।१।३७) क्विप्लोपः ।
सिंयत] सम 'य{ उपरमे' (३८६) यम् । संयच्छतीति क्विप् । अनेन मलोपः । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलुप् ।
[वियत्] वि ‘यमूं उपरमे' (३८६) यम् । वियच्छतीति क्विप् । अनेन मलोपः । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलुप् ।
[परीतत्] 'तनूयी विस्तारे' (१४९९) तन्, परिपूर्व० । परितनोतीति क्विप् । 'गति-कारकस्य नहि-वृति-वृषि-व्यधिरुचि-सहि-तनो क्वौ' (३१२१८५) दीर्घः । अनेन नलोपः । 'हूस्वस्य तः पित्कृति' (४|४|११३) तोऽन्तः । 'अप्रयोगीत' (१७३७) विवप्लोपः ।
[उपातत्] 'तनूयी विस्तारे' (१४९९) तन्, उपपूर्व० । उपतनोतीति क्विप् । ‘गति-कारकस्य नहि०' (३।२।८५) दीर्घः । अनेन नलोपः । ‘ह्रस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । ‘अप्रयोगीत्' (१।१।३७) क्विप्लोपः ।
[सुसत्] सु ‘षणूयी दाने' (१५००) षण् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सन् । सुष्ठु सनोतीति क्विप् । अनेन नलोपः । 'इस्वस्य०' (४।४।११३) तोऽन्तः ।।
[सुमत्] ‘मनूयि बोधने' (१५०७) मन्, सुपूर्व० । सुष्ठु मनुते इति क्विप् । अनेन नलोपः । 'हस्वस्य०' (४।४।११३) तोऽन्तः ।
[सुबत् 'वनूयि याचने' (१५०६) वन्, सुपूर्व० । सुष्टु वनुते इति क्विप् । अनेन नलोपः । 'हस्वस्य०' (४।४।११३) तोऽन्तः । ॐ वृहद्वृत्ती - उपशम्य ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org