________________
अथ चतुर्थाध्यायस्य द्वितीयः पादः ॥
[ जञ्जन्ति ] जन् । भृशं पुनः पुनर्वा जायते । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) यप्र० । ' सन् - यङश्च' (४|११३) द्विः । 'मुरतोऽनुनासिकस्य' (४।१।५१) मोऽन्तः । 'बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । वर्त्त० तिव् । 'म्नां धुड्वर्गेऽन्त्यो० ' (१।३।३९ )
म० अ० ॥छ।
सनि ||४|२|६१ ||
[सनि] सन् सप्तमी ङि ।
[ सिषासति ] वन (३२९) 'षण संभक्तौ ' ( ३३० ) षण् । 'षणूयी दाने' (१५०० ) षण् । सनितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सन:' ( ३।४।२१) सन्प्र० । अनेन न० आ० । 'सन् यडञ्च' ( ४|१|३ ) " सा 'द्विः । 'ह्रस्वः ' (४।१।३९) ह्रस्वः । ' सन्यस्य' (४/१/५९) इ । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव् (३।४।७१) शव् ।
खनि जनोरिटा भवितव्यमिति धुडादिः सन्न भवति ।
[सिसनिषति] सन् । सनितुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । 'सन्- यङश्च' ( ४।१।३ ) द्विः । 'सन्यस्य' (४।१।५९) इ । इवृध - भ्रस्ज- दम्भ - श्रि-यूणु-भर-ज्ञपि सनि-तनि-पति-वृद्-दरिद्रः सनः' (४।४।४७ ) इट् । वर्त्त० तिव् । " कर्त्तर्य०' (३।४।७१ ) शव् ||छ।।
५३
ये नवा ||४|२| ६२ ॥
[ये] य सप्तमी ङि ।
[नवा ] नवा प्रथमा सि ।
[ खायते, खन्यते] 'खनूग् अवदारणे' (९१३) खन् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र०य ।
[ चाखायते चन्यते ] खन् । भृशं पुनः पुनर्वा खनति । 'व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यङ् वा' ( ३।४।९) यङ् - प्र० । अनेन न० आ० | 'सन्-यश्च' (४।१।३) “खा द्विः । ह्रस्वः' (४।१।३९) ह्रस्वः । द्वितीय-तुर्ययो: पूर्वी' (४।१।४२ ) ख० क० । 'क ङञ्च ञ्' (४।१।४६) क० च० । 'आ-गुणावन्यादेः' (४।११४८) आ । 'मुरतोऽनुनासिकस्य' (४/१/५१) मोऽन्तः ।
[प्रखाय, प्रखन्य] प्रखन् । प्रखननं पूर्वम् । प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' ( ३।२।१५४) यप् । अनेन वा आ० ।
[सायते, सन्यते] वन (३२९) 'पण संभक्तौ' (३३०) षण् । 'षः सोऽष्ट्यै- ष्ठिव-ष्वष्कः' (२।३।९८) सन् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र०य । अनेन वा आ० ।
Jain Education International
[ सासायते, संसन्यते] भृशं पुनः पुनर्वा सनति सनोति वा । 'व्यञ्जनादेरेकस्वरा०' (३/४/९) यप्र० → य । अनेन वा आ० । ‘सन्-यङश्च’ (४।१।३) “सा द्विः । 'ह्रस्वः' (४।१।३९) ह्रस्वः । ' आ-गुणावन्यादेः' (४।१।४८) आ० । 'मुरतोऽनुनासिकस्य' (४।१।५१ ) मोऽन्तः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् ।
[ प्रसाय, प्रसन्य, प्रसत्य ] प्र-सन् । प्रसननं पूर्वम् । 'प्राक्काले ' ( ५१४१४७) क्त्वाप्र० । 'अनञः क्त्वो यप् ( ३।२।१५४) यप् । अनेन वा आ० । 'यपि' (४/२/५६) नलोपः । ' ह्रस्वस्य०' (४|४|११३ ) तोऽन्तः ।
For Private & Personal Use Only
www.jainelibrary.org