SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य द्वितीयः पादः ॥ गु० ओ । 'हो धुट्-पदान्ते' (२।१।८२) ह० ष्टवर्गाभ्यां योगे च टवर्गी' (१।३।६०) ध० [निगोढुम् ] निगो (गू) हनाय । 'क्रियायां क्रियार्थायां तुम् णकच्०' (५।३।१३ ) तुम्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) ढ० । 'अधश्चतुर्थात् तथोर्धः ' (२।१।७९) त० ध० । ' तवर्गस्य श्चवर्गढ० । 'ढस्तड्ढे ' (१।३।४२) ढलोपः ॥ छ ॥ भुवो वः परोक्षाऽद्यतन्योः || ४|२|४३|| [भुवः] भू षष्ठी इस् । 'धातोरिवर्णोवर्णस्येयुव् स्वरे प्रत्यये ' (२।१।५०) उब् । [व] व् षष्ठी डस् । [परोक्षाऽद्यतन्योः ] परोक्षा च अद्यतनी च तयोः । नन्वत्र पूर्वसूत्रात् स्वरमनुवर्त्य ततश्च परोक्षाऽद्यतन्योः स्वरे परे इति व्याख्याने स्वयमेव वकारान्तत्वं लप्स्यते, किं वग्रहणेन ? उच्यते यदि स्वरोऽनुवर्त्यते तदा उत्तरसूत्रेऽनुवर्तमानो दुर्निवारः स्यात्तथा च त्रस्त इत्यादी 'नो व्यञ्जनस्या० ' ( ४।२।४५) इति नलोपो न स्यात्, अत एवं 'गम-हन०' (४।२।४४) सूत्रे स्वरग्रहणम् । ३९ [बभूव] 'भू सत्तायाम्' (१) भू । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे० ' ( ४।१।१) द्विः । ' ह्रस्वः' (४।१।३९) ह्रस्वः । 'भू-स्वपोरदुतौ' (४।१।७०) उ० अ० । 'नामिनोऽकलि-हले ः ' ( ४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । अनेन ऊत् । द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भ० ब० । [बभूवतुः ] भू । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्विः । 'ह्रस्वः' (४|१|३९) ह्रस्वः । 'भू-स्वपोरदुती' (४।१।७०) उ० अ० । 'धातोरिवर्णोवर्णस्येयुव्०' (२।१।५० ) उव् । अनेन ऊत् । द्वितीय-तुर्ययो: पूर्वी' (४।१।४२) भ० ब० । [ बभूवुः ] भू । परोक्षा उस् । 'शेषं 'बभूवतुः' वत् । [बभूविथ ] भू । परोक्षा थव् । 'द्विर्धातुः परोक्षा- डे० ' ( ४|१|१) द्विः | 'भू-स्वपोरदुतौ' (४।१।७०) ऊ० अ० । ‘स्क्रसृ-वृ-भृ-स्तु-द्रु-श्रु-स्त्रोर्व्यञ्जनादेः परोक्षायाः' (४।४।८१) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । अनेन ऊत् । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भ० ब० । [बभूवुषः ] भू । बभूवान्, तस्य । ' तत्र क्वसु - कानौ तद्वत्' (५।२।२) क्वसुप्र० वस् । 'द्विर्धातुः परोक्षा- डे० ' (४।१।१) द्विः । ' भू-स्वपोरदुतौ' (४।१।७०) ऊ० अ० । 'द्वितीय-तुर्ययो: पूर्वी' (४।१।४२) भ० ब० । षष्ठी डस् । 'क्वसुष्मतौ च' (२।१।१०५) उष् । 'धातोरिवर्णोवर्णस्येयुव्०' (२।१।५० ) उव् । अनेन ऊत् । [ अभूवन् ] भू । अद्यतनी अन् । 'सिजद्यतन्याम्' ( ३ | ४|५३) सिच् । 'पिबैति - दा - भू-स्थः सिचो ० ' ( ४१३ १६६ ) सिच्लुपू । 'भवतेः सिज्लुपि' ( ४ | ३ |१२) गुणनिषेधः । ' धातोरिवर्णोवर्णस्येयुव्० ' (२।१।५० ) उबू । अनेन ऊत् । 'अड् धातोरादि०' (४।४।२९) अट् । [अभूवम्] भू । अद्यतनी अम् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'पिबैति-दा-भू-स्थः ० ' ( ४१३ १६६) सिच्लुप् । 'भवतेः सिज्लुपि' (४।३।१२) गुणनिषेधः । ' धातोरिवर्णोवर्णस्येयुव्० ' (२।१।५० ) उद् । अनेन ऊत् । 'अड् धातोरादि० ' (४।४।२९) अट् । अत्र वृद्धिगुणोवादेशेषु कृतेषु भुवो वकारान्तत्वम् । [बभूवान्] भू । बभूव । ‘तत्र क्वसु- कानौ तद्वत्' (५।२।२) क्वसुप्र०वस् । द्विः । ' ह्रस्वः' (४।१।३९ ) ह्रस्वः । 'भू-स्वपोरदुतो' (४/१/७०) उ० अ० । द्वितीय- तुर्ययोः' पूर्वी (४।१।४२ ) भ० ब० । प्रथमा सि । 'ऋदुदितः ' Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy