________________
४०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
(१।४।७०) नोऽन्तः । 'न्स्महतोः' (१।४।८६) दीर्घः । दीर्घयाब्०' (१।४।४५) सिलोपः । ‘पदस्य' (२।१८९) सलोपः ।
[अभूत्] भू । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'पिबैति-दा-भू-स्थः सिचो लुप्०' (४।३।६६) सिच्लोपः । ‘अड् धातोरादि०' (४।४।२९) अट् ।
भविष्यति भू । भविष्यन्ती स्यति । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ | 'ओदौतोऽवाव्' (१।२।२४) अव । 'नाम्यन्तस्था-कवर्गात् पदान्तः कृतस्य सः शिडु-नान्तरेऽपि' (२।३।१५) षत्वम् ।।छ।।
गम-हन-जन-खन-घसः स्वरेऽनङि क्डिति लुक ।।४।२१४४।।
[गमहनजनखनघसः] गमश्च हनश्च जनश्च खनश्च घस् च = गमहनजनखनघस्, तस्य । [स्वरे] स्वर सप्तमी ङि । [अनङि] न अङ् = अनङ्, तस्मिन् । [क्डिति] क् च ङ् च = क्डौ, क्डवितावनुबन्धौ यस्याऽसौ विडत्, तस्मिन् । [लुक्] लुक् प्रथमा सि ।
[जग्मतुः, जग्मुः] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीमृ (३९५) - ‘गम्लुं गतौ' (३९६) गम् । परोक्षा अतुस्-उस् । 'द्विर्धातुः परोक्षा-डे प्राक्०' (४।१।१) “गम्"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ग-होर्जः' (४।१।४०) ग० → ज० । अनेन अलोपः ।
[जघ्नतुः, जघ्नुः] 'हनंक हिंसा-गत्योः' (११००) हन् । परोक्षा अतुस्-उस् । 'द्विर्धातुः परोक्षा-डे०' (४११) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ग-होर्जः' (४।१।४०) ह० → ज० । 'अङे हि-हनो हो घः पूर्वात्' (४।१।३४) ह० → घ० । अनेन अलोपः ।
[जज्ञे, जज्ञाते, जज्ञिरे] 'जनैचि प्रादुर्भावे' (१२६५) जन् । परोक्षा ए-आते-इरे । 'द्विर्धातुः परोक्षा-२०' (४।११) द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन अलोपः । 'तवर्गस्य श्ववर्ग-ष्टवर्गाभ्यां योगे च-टवर्गा' (१३१६०) न० → ० ।।
[चख्नतुः, चख्नुः] 'खनूग् अवदारणे' (९१३) खन् । परोक्षा अतुस-उस् । 'द्विर्धातुः परोक्षा-डे०' (४।११) द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) ख० → क० । 'क-डश्च-ञ्' (४।११४६) क० → च० । अनेन अलोपः ।
जक्षतुः, जक्षुः] 'अदं भक्षणे' (१०५९) अद् । परोक्षा अतुस्-उस् । ‘परोक्षायां नवा' (४।४।१८) अद्० → घस् । 'द्विर्धातुः परोक्षा-डे०' (४१1१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'द्वितीय-तुर्ययोः पूर्वो' (४।१।४२) घ० → ग० । 'ग-होर्जः' (४।१।४०) ग० → ज० । अनेन अलोपः । 'अघोषे प्रथमोऽशिटः' (११३५०) घ० →क० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम्, क-षसंयोगे क्ष० ।
जक्षिवान] 'अदं भक्षणे' (१०५९) अद् । जघास । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । 'परोक्षायां नवा' (४।४।१८) अद्० → घस् । द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'द्वितीयतुर्ययोः पूर्वी' (४।१।४२) घ० → ग० । 'ग-होर्जः' (४।१।४०) ग० → ज० । 'घसेकस्वराऽऽतः क्वसोः' (४।४।८२)
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org