SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ३८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । raamawwwwwwwwwwwwe [वा] वा प्रथमा सि । [चित्तं दूषयति, चित्तं दोषयति] 'दुषंच् वैकृत्ये' (१२०९) दुष् । चित्तं दुष्यति, तच्चित्तं दुष्यन् अन्यः प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । अनेन वा ऊत् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । वर्त० तिव् । 'कर्त्तर्यनभ्यः शव' (३।४७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३.१) गु० ए । 'एदैतोऽयाय' (१२।२३) अय् । [मनो दूषयति, मनो दोषयति] मनो दुष्यति, तन्मनो दुष्यन् अन्यः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । अनेन वा ऊत् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४१३१) गु० ए । 'एदेतोऽयाय' (१।२।२३) अय । चित्तग्रहणेन प्रज्ञाया अपि ग्रहणात् [प्रज्ञां दूषयति, प्रज्ञां दोषयति प्रज्ञा दुष्यति, तां दुष्यन्ती(न्ती) अन्यः प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । अनेन वा ऊत् । पक्षे 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । शेषं सुगमम् ।।छ।। गोहः स्वरे ।।४।२४२॥ [गोहः] गोह षष्ठी डस् । [स्वरे] स्वर सप्तमी ङि । [निगृहति] ‘गुहू(हौ)ग् संवरणे' (९३५) गुह्, निपूर्व० । वर्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ओ । अनेन ऊत् । [निगृहयति] निगूहन्तं प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । अनेन ऊत् । [निगूहकः] नि-गुह् । निगूहतीति । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ओ । अनेन ऊत् । [साधुनिगृही] साधु निगूहतीति । ‘साधौ' (५।१।१५५) णिन्प्र० → इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । अनेन ऊत् । प्रथमा सि । 'इन-हन-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । 'दीर्घड्याव-व्यञ्जनात सेः' (१।४।४५) सिलोपः । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः । [निगृहनिगूहम्] निगूहनं पूर्वम् । 'ख्णम्-चाऽऽभीक्ष्ण्ये' (५।४।४८) ख्णम्प्र० । लघोरुपान्त्यस्य' (४।३।४) गु० ओ । अनेन ऊत् । 'भृशा-ऽऽभीक्ष्ण्या-ऽविच्छेदे द्विः प्राक् तमबादेः' (७।४।७३) द्विः । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । [निजुगृह] गुह्, निपूर्व० । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) "गुह"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ‘ग-होर्जः' (४।१।४०) गु० -→ जु० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । अनेन ऊत् । [निजुगुहतुः] गुह्, निपूर्व० । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा-डे०' (४1919) द्विः । शेषं पूर्ववत् । [निजुगुहुः] गुह्, निपूर्व० । परोक्षा उस् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । शेषं पूर्ववत् । गुण-उ(ऊोतो न भवतः । • [निगोढा] निगूहतीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ । P.卐 दुष्यति मनः, तत् दुःखादन्यः प्रयुक्ते । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy