________________
अथ चतुर्थाध्यायस्य द्वितीयः पादः ॥
[अममातत्] मातृ । मातरमाख्यत् । 'णिज्बहुलं०' ( ३।४।४२) णिज् (च्) प्र० । ' त्रन्त्यस्वरादेः' (७।४।४३ ) ऋलोपः । अद्यतनी दि → त् । ‘णि श्रि-दु-सु० ' ( ३।४१५८) प्र० । शेषं पूर्ववत् ।
यत्राऽन्त्यस्वरादिलोपस्तत्र 'स्वरस्य परे प्राग्विधौ' (७|४|११० ) इत्यनेन स्थानिवद्भावेन न सिध्यतीति वचनम् ।
[अममालत्] माला । मालामाख्यत् । 'णिज्बहुलं० ' ( ३।४।४२) णिज् (च्) प्र० । ' त्रन्त्यस्वरादेः ' ( ७।४।४३ ) आलोपः । अद्यतनी दि→ त् । 'णि श्रि-दु-सु-कम: ० ' ( ३ | ४|५८) डप्र० । द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४/१/४४ ) अनादिव्यञ्जनलोपः । ‘ह्रस्वः' (४|१|३९) ह्रस्वः । ' णेरनिटि' (४।३।८३) णिच्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[ अससारत्] सार । सारमाख्यत् । 'णिज्बहुलं०' (३।४।४२) णिज् (च्) प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अलोपः । अद्यतनी दि→ त् । 'णि-श्रि-द्रु-सु-कम: ० ' ( ३।४।५८) डप्र० । द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ' ह्रस्वः' ( ४|१|३९ ) ह्रस्वः । 'णेरनिटि' ( ४ | ३ |८३) णिच्लोपः । 'अड् धातोरादि० (४।४।२९) अट् ।
[ असुसूरत्] सूर । सूरमाख्यत् । 'णिज्बहुलं०' ( ३।४।४२) णिज् (च्) प्र० । ' त्रन्त्यस्वरादेः ' ( ७१४।४३) अलोपः । अद्यतनी दि→त् । 'णि श्रि-दु-सु-कमः ० ' ( ३।४।५८) डप्र० । द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ह्रस्वः' (४।१।३९) ह्रस्वः । ' णेरनिटि' ( ४ | ३ |८३) णिच्लोपः । 'अड् धातोरादिर्ह्यस्तन्यां०' (४।४।२९) अट् ।
39
ननु यत्रापि स्वख्यञ्जनलोपस्तत्राप्यवयवावयविनोरभेदनयेन स्वरादेश एवेति स्थानिवद्भावेनैव सिध्यति, किमसमानलोपिवचनेन ? सत्यम् - स्थानिवद्भावस्य अनित्यत्वख्यापनार्थं वचनम् -
--
[पर्यवीवसत्] परि-वासी मांडणीयइ । वास्या परिच्छिन्नवान् । 'णिज् - बहुलं०' (३।४।४२) णिज् (च्) प्र० । 'नामिनोऽकलिहलेः' (४।३।५१) वृद्धिः ऐ । ' त्रन्त्यस्वरादेः ' ( ७।४।४३ ) ऐलोपः । अद्यतनी दित् । 'णि श्रि-दु-सु-कम: ० ' ( ३।४।५८) डप्र० । अनेन ह्रस्वः । द्विः । ' व्यञ्जनस्याऽनादेर्लुक्' (४/१/४४) अनादिव्यञ्जनलोपः । 'ह्रस्वः' ( ४|१|३९) ह्रस्वः । 'असमानलोपे०' (४।१।६३) अ० इ० । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । 'णेरनिटि' (४।३१८३) णिच्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[ असिस्वदत् ]
स्वादुमकृतवान् । 'णिज्बहुलं नाम्नः कृगादिपु ' ( ३।४।४२) णिच्प्र० । 'नामिनोऽकलि-हले ः ' (४।३।५१) वृद्धिः औ । 'त्रन्त्यस्वरादेः' (७।४।४३) औलोपः । अद्यतनी दि - त् । 'णि श्रि द्रु-सु-कमः ० ' ( ३।४।५८) डप्र० । अनेन ह्रस्वः । द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ह्रस्वः' ( ४|१|३९) ह्रस्वः । 'असमानलोपे० ' (४।१।६३) अ० इ० । ' णेरनिटि ' ( ४ | ३ |८३) णिच्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् | अत्रेकारोकारयोः ‘नामिनोऽकलि-हलेः’ (४।३।५१ ) इति वृद्धौ कृतायामन्त्यस्वरादिलोपादसमानलोपित्वम् ।
ननु च परत्वात् प्रथमं लोपेनैव भवितव्यम् ? नैवम् - कलि-हलिवर्जनात् परमपि लोपं वृद्धिर्बाधते - अत एव कलिहलिवर्जनमर्थवत् ।
[अशशासत् ] 'शासूक् अनुशिष्टौ ' (१०९५ ) शास् । शासन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे० ' ( ३।४।२०) णिग्प्र० । अद्यतनी दि→ त् । 'णि-श्रि-दु-सु० ' ( ३।४।५८) डप्र० । द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४|१|४४ ) अनादिव्यञ्जनलोपः ।
' ह्रस्वः' (४।१।३९) ह्रस्वः । 'णेरनिटि' ( ४ | ३ |८३) णिग्लोपः । 'अड् धातोरादि० ' ( ४।४।२९) अट् ।
'आङ: शासूकि इच्छायाम्' (१११८) आशास्, इत्यस्याऽपीच्छन्त्यः
[आशशासत्] आशासमानं प्रायुक्त । 'प्रयोक्तृ० ' ( ३।४।२०) णिग्प० । अद्यतनी दित् । 'णि-श्रि-दु-सु०' ( ३।४।५८ ) ङ । द्विः शेषं पूर्ववत् ।
'स्थानिवद्भाव-पुंवद्भावैकशेष- द्वन्द्वैकत्व-दीर्घत्वान्यनित्यानि ' (२ / ३९) न्याये स्वादु कृतवान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org