SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [ मा भवान् ओणिणत्] 'ओट अपनयने (२७३) ओण् । ओणन्तं प्रायुक्त । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० । शेषं पूर्ववत् । ३२ [मा भवानोचिखत् ] 'ओखृ शोषणालमर्थयोः' (५५) ओख् । ओखन्तं प्रायुक्त | प्रयोक्तृ० ' ( ३।४।२० ) णिग्प्र० । अद्यतनी दि→ त् । 'णि श्रि-दु-सु-कमः ० ' ( ३।४।५८ ) ङप्र० । 'स्वराऽऽदेर्द्वितीयः' (४।१।४ ) “खि 'द्विः । ‘द्वितीय-तुर्ययोः०' (४।१।४२) ख० क० । 'क ङश्च ञ्' (४/१/४६) क० च० । [ मा भवान् एजिजत् ] 'एज कम्पने' (१४८) एज् । एजन्तं प्रायुक्त । 'प्रयोक्तृ० ' ( ३।४।२०) णिग्प्र० । अद्यतनी दि → तू । ‘णि-श्रि०’ (३।४।५८ ) ङप्र० । 'लोकात् ' (१1१1३) “ए” पाठउ विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः ( ४।१।४ ) " जि”द्विः । 'णेरनिटि' ( ४ | ३ |८३) णिग्लोपः । [अययाचत्] ‘डुयाचृग् याच्ञायाम्' (८९१) याच् । याचमानं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । अद्यतनी दि→ त् । 'णि-श्रि-दु-सु-कमः ०' (३।४।५८) डप्र० । द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ह्रस्वः' (४।१।३९) ह्रस्वः । 'णेरनिटि' (४।३।८३) णिग्लोपः । ' अड् धातोरादि० ' ( ४।४।२९) अट् । [असिसेकत्] ककुङ् (६२२) - श्वकुङ् (६२३) - कुङ् (६२४) - श्रकुङ् (६२५) - श्लकुङ् (६२६) ढौकृङ् (६२७) त्रोकृङ् (६२८) - ष्वष्कि (६२९ ) - वस्कि (६३० ) - मस्कि (६३१ ) - तिकि (६३२) - टिकि (६३३) - टीकृङ् (६३४) 'सेकृङ् गतौ' (६३५) सेक् । सेकमानं प्रायुक्त । 'प्रयोक्तृ०' ( ३।४।२०) णिग्प्र० । अद्यतनी दित् । 'णि श्रिद्रु-सु०' (३।४।५८) डप्र० । द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।११४४) अनादिव्यञ्जनलोपः । ' ह्रस्वः' ( ४|१|३९) ह्रस्वः । 'णेरनिटि’ ( ४ | ३ |८३) णिग्लोपः । ' अड् धातोरादि० ' ( ४।४।२९) अट् । [अलुलोकत्] लोकृङ् दर्शने (६१२) लोक् । लोकमानं प्रायुक्त | 'प्रयोक्तृ० ' ( ३।४।२०) णिग्प्र० । अद्यतनी दि त् । 'णि- श्रि-दु-सु० ' ( ३।४।५८) उप० । द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ह्रस्वः' (४।१।३९ ) ह्रस्वः । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९ ) अट् । [अडुढौकत्] ककुङ् (६२२) - धकुङ् (६२३) - कुङ् (६२४) - श्रकुङ् (६२५) - श्लकुङ् (६२६) - 'ढौकृङ् गती' (६२७) ढौक् । ढौकमानं प्रायुक्त | 'प्रयोक्तृ० ' ( ३।४।२०) णिग्प्र० । अद्यतनी दि त् । 'णि श्रि द्रु-सु-कमः ०' (३|४|५८) डप्र० । द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ह्रस्व:' ( ४|१|३९ ) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वी ' (४।१।४२) ढ०ड० । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९ ) अट् । शासि (से) रूदित्करणं यङ्लुपि निवृत्त्यर्थम् [अशाशसत् ] 'शासूक् अनुशिप्टी' (१०९५ ) शास् । भृशं पुनः पुनर्वा अशिषत् । ' व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यङ् वा' (३।४।९) य० । 'सन् - यडच' (४।१।३) “शा' 'द्विः । ' ह्रस्वः' ( ४।१।३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४।१।४८) आ । ‘बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । अनेन ह्रस्वः मूलधातोः अशासीत् (अशाशासीत्) कश्चित् तं शासन्तमन्यः (शाशासतमन्यः) प्रायुक्त । 'प्रयोक्तृ० ' ( ३।४।२०) णिग्प्र० । अद्यतनी दि त् । 'णि श्रि- द्रु-सु-कमः ० ' ( ३ | ४|५८) ङप्र० । 'णेरनिटि' ( ४ | ३ |८३) णिग्लोपः । ' अड् धातोरादि० ' ( ४।४।२९) अट् | - - Jain Education Intemational. [अवीवदद् वीणां परिवादकेन] 'वद व्यक्तायां वाचि' (९९८) वद् । वदति स्म वीणा, तां परिवादकः प्रायुक्त । 'प्रयोक्तृ०' ( ३।४।२० ) णिग्प्र० । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ । परिवादयति वीणां परिवादकस्तं (स्तां) परिवादयन्तमन्यः प्रायुक्त । ‘प्रयोक्तृ०’ (३।४।२०) णिग्प्र० । अद्यतनी दि तू । 'णि श्रिदु स्रु० ' ( ३।४।५८) प्र० । अनेन ह्रस्वः । द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'असमानलोपे० ' ( ४।१।६३) इ । 'लघोर्दीर्घोऽस्वरादेः' (४|१|६४ ) For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy