________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[मा भवान् ओणिणत्] 'ओट अपनयने' (२७३) ओण, माड्पूर्व० । मा ओणन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग् ( ३।४।२०) णिग्प्र० । अद्यतनी दित् । 'लोकात्' (१।१।३) ओ पाठउ विश्लेषिया । 'स्वराऽऽदेर्द्वितीयः' (४।१।४) “णि”द्विः । 'णेरनिटि' (४।३।८३) णिग्लोपः । अत्र ऋदित्त्वादुपान्त्यह्रस्वत्वप्रतिषेधो यथा स्यादित्येवमर्थं क्रियते ।
३०
[मा भवान् अटिटत्] 'अट गतौ' (१९४) अट, माङ्पूर्व० । अटन्तं प्रायुक्त । 'प्रयोक्तृ० ' ( ३।४।२०) णिग्प्र० । ‘ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । अद्यतनी दित् । 'णि श्रि-दु-सु०' ( ३।४।५८) डप्र० । अनेनैव ह्रस्वः । 'लोकात् ' (१।१।३) “अ”पाठउ विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' (४।१।४) "टि द्विः । 'णेरनिटि' (४।३।८३) णिग्लोपः ।
[ मा भवान् अशिशत्] 'अशश् भोजने' (१५५८) अश्, माड्पूर्व० । अश्नन्तं प्रायुक्त । 'प्रयोक्तृ० ' ( ३।४।२० ) णिग्प्र० । 'ञ्णिति' (४।३।५० ) उपान्त्यवृद्धिः आ । अद्यतनी दि तू । 'णि श्रि द्रु-सु०' ( ३।४।५८) प्र० । अनेनैव ह्रस्वः । ‘लोकात्’ (१।१।३) "अ" पाठउ विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' ( ४।१।४ ) " शिद्विः । 'णेरनिटि' (४।३।८३) णिग्लोपः ।
[अजूगुनत्] गो नौ मांडणी । गौरेव नौर्यस्याऽसौ गोनौः । गोनावमाख्यत् । 'णिज्बहुलं ० ' ( ३।४।४२) णिज् (च्)प्र० । ‘त्रन्त्यस्वरादेः' (७।४।४३) औलोपः । अद्यतनी दित् । 'णि-श्रि-दु-स्रु०' ( ३।४।५८) डप्र० । अनेन ह्रस्वः । द्विः ‘“गुन्” । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) नलुक् । 'ग- होर्ज : ' ( ४।१।४०) ग० ज० । 'लघोर्दीर्घो ऽस्वरादेः' (४।१।६४) दीर्घः । ‘णेरनिटि' ( ४ | ३ |८३) णिज्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[कारयति] ‘डुकृंग् करणे' (८८८) कृ । कुर्वन्तं प्रयुङ्क्ते । 'प्रयोक्तृ० ' ( ३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[पाचयति] 'डुपचष् पाके' (८९२) पच् । पचन्तं प्रयुङ्क्ते । 'प्रयोक्तृ०' ( ३।४।२०) णिग्प्र० । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्ङिति' ( ४ | ३ |१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
'येन नाव्यवधानं तेन व्यवहितेऽपि स्यात्' (न्या० सं० वक्षस्कार ( २ ) / सूत्र (१३) इति न्यायेनैव सिद्धे उपान्त्यग्रहणमुत्तरार्थम् ।
[अत्यरराजत्] अति-राजन् मांडणी । राजानमतिक्रान्तवान् असौ अतिराजः । ' राजन् सखे:' (७।३।१०६) अट्समासान्तः । 'नोऽपदस्य तद्धिते' (७।४।६१ ) अन्लोपः । अतिराजमाख्यत् । णिज्बहुलं नाम्नः कृगादिषु' ( ३।४।४२) णिज् (च्) प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अलोपः । अद्यतनी दि→ तू । 'णि श्रि-दु-स्रु कमः ० ( ३ | ४|५८) डप्र० । द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ह्रस्वः' ( ४|१| ३९ ) ह्रस्वः । ' णेरनिटि' (४।३।८३) णिच्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[ अन्वलुलोमत्] अनु-लोमन् । लोमान्यनुगृष्टवान् । 'णिज्बहुलं०' ( ३।४।४२) णिज् (च्) प्र० । ' त्रन्त्यस्वरादेः ' ( ७।४।४३) अनुलोपः । अग्रे पूर्ववत् ।
[ असस्वामत्] स्वामिन् । स्वामिनमाख्यत् । णिज्बहुलं०' ( ३।४।४२) णिच्प्र० । ' त्रन्त्यस्वरादेः' (७/४१४३) इनुलोपः । अद्यतनी दि→ त् । 'णि श्रि दु-सु०' (३|४|५८) उप० । शेपं पूर्ववत् ।
[ अततादत् ] तादृश् । तादृशमाख्यत् । 'णिज्वहुलं ० ' ( ३।४।४२) णिज् (च्) प्र० । 'त्रन्त्यस्वरादेः' (७/४१४३) ऋश्लोपः । अद्यतनी दि→ त् । 'णि श्रि-दु-सु० ' ( ३।४।५८ ) ङप० । शेषं पूर्ववत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org