________________
अथ चतुर्थाध्यायस्य द्वितीयः पादः ॥
[प्रच्छादनम् ] छादि, प्रपूर्व० । प्रच्छाद्यतेऽनेनेति । ' करणा-ऽऽधारे' (५।३।१२९) अनट्प्र० अन । णेरनिटिः( ४ | ३ |८३) णिच्लोपः ।
[तनुच्छादनम् ] छाद्यतेऽनेनेति । 'करणा-ऽऽधारे' (५|३|१२९) अनट्प्र० अन । 'णेरनिटि' (४।३।८३) णिच्लोपः । तनोः छादनं तनुच्छादनम् । 'कृति' ( ३।१।७७) समासः ||छ ||
=
=
उपान्त्यस्याऽसमानलोपि शास्वृदितो ङे || ४|२|३५||
[ उपान्त्यस्य ] उपगतो ऽन्त्यः = उपान्त्यः, तस्य ।
[ असमानलोपिशास्वृदितः ] समानस्य लोपः समानलोपः समानलोपो ऽस्यास्तीत्यसौ समानलोपी । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णवर्णस्य' (७१४।६८) अलोपः । ऋत् इदनुवन्धो यस्याऽसौ ऋदित्, समानलोपी च शासूश्च ऋदिच्च समानलोपिशास्वृदित्, न समानलोपिशास्वृदित् असमानलोपिशास्वृदित्, तस्य ।
====
=
२९
[] ङ सप्तमी ङि ।
[अपीपचत्] 'डुपचष् पाके' (८९२) पच् । पचन्तं प्रायुक्त । प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'मिति' (४।३।५०) उपान्त्यवृद्धिः आ । अद्यतनी दि त् । 'णि-नि-दु-सु-कमः कर्त्तरि ङ' ( ३।४।५८ ) ङप्र० । अनेन ह्रस्वः । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यचनलोपः । ' ह्रस्वः' ( ४।१।३९) ह्रस्वः । 'असमानलोपे सन्वल्लघुनि ङे (४।१।६३) अ० इ० । 'लघोर्दीर्घो ऽस्वरादे:' ( ४११ १६४ ) दीर्घः । 'णेरनिटि' (४।३।८३) णिग्लोपः । ' अड् धातोरादि०' (४।४।२९) अट् ।
Jain Education International
[ अदीदपत्] 'डुदांगक् दाने' (११३८) दा । ददतं प्रायुक्त । 'प्रयोक्तृ०' ( ३।४।२०) णिग्प्र० । 'अर्त्ति-री- व्ली-ही-क्नूयि० ' (४।२।२१) पोऽन्तः । अद्यतनी दित् । 'णि श्रि-दु-सु० ' ( ३।४।५८) डप्र० । अनेन ह्रस्वः । द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ह्रस्वः' (४।१।३९) ह्रस्वः । 'असमानलोपे० ' (४।११६३) अ० इ० । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अचीकरत्] 'डुकृंग् करणे' (८८८) कृ । कुर्वन्तं प्रायुक्त | 'प्रयोक्तृव्यापारे गिग' ( ३।४।२० ) णिग्प्र० । 'नामिनोऽकलि-हले ः ' (४।३।५१) वृद्धिः आर् । अद्यतनी दित् । 'णि-श्रि-दु-सु०' (३|४|५८) प्र० । अनेन ह्रस्वः । द्विः । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ' ह्रस्वः' (४।१।३९) ह्रस्वः । 'कडञ्च -ञ्' (४।१।४६) क० च० । ‘असमानलोपे०' (४।१।६३) इ । 'लघोर्दीर्घोऽस्वरादेः' (४|१|६४) दीर्घः । ' णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अलीलवत् ] 'लूग्श् छेदने' (१५१९) लू । लुनन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । 'नामिनो ऽकलि-हले:' ( ४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । अद्यतनी दित् । 'णि श्रि-दु-सु० ' (३।४।५८) डप्र० । अनेन ह्रस्वः । द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४|१|४४) अनादिव्यञ्जनलोपः । ' ह्रस्वः' (४।१।३९) ह्रस्वः । 'असमानलोपे०' (४।१।६३) इति सूत्रेण सन्वद्भावात् 'ओर्जा - ऽन्तस्था० ' ( ४।१।६० ) इ । 'लघोर्दीर्घोऽस्वरादेः' (४|१|६४) दीर्घः । 'णेरनिटि' ( ४१३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
अत्र न केवलं “प्राक् तु स्वरे" इत्यनेन प्राप्तनित्यमपि द्विर्वचनं वाधित्वा प्रागेव ह्रस्वो भवति, ओणेः ऋदित्करणे ज्ञापकात् । ओणे ऋदनुबन्धो ज्ञापयति नित्यमपि द्विर्वचनं ह्रस्वत्वेन बाध्यते, तद्धि
P. 'आद्योंऽश एकस्वर:' ( ४।१।२) "प’द्विः ।
For Private & Personal Use Only
-
www.jainelibrary.org