________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
इयां लुक्' (२।४।८६) अलोपः ।
उपच्छत उप-छादि । उपच्छादयतीति क्विप् । अनेन हूस्वः । ‘णेरनिटि' (४।३८३) णिचलोपः । ‘अप्रयोगीत' (१।१।३७) विप्लोपः । प्रथमा सि । 'दीर्घड्याव-व्यञ्जनात् से:' (१।४।४५) सिलुक् । 'विरामे वा' (११३५१) द० →
त० ।
[धामच्छत] धामन - छादि । धाम तेजच्छादयतीति क्विप । अनेन ह्रस्वः । ‘णेरनिटि' (४।३।८३) णिचलोपः । ‘अप्रयोगीत्' (१।१।३७) क्विफ्लोपः । प्रथमा सि । 'दीर्घड्याव्०' (१।४।४५) सिलुक् । 'विरामे वा' (१।३।५१) द० → त० ।
[छात्रः] ‘छदण संवरणे' (१६५) छद् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । गुरुछिद्राणि छ(छा)दयतीति छात्रः । 'हु-या-मा-श्रु-वसि-भसि-गु-वी-वचि धृ यम्यमि-मनि-तनि-सदि-छादि-क्षि क्षदि-लुपि-पति-धूभ्यस्त्रः' (उणा० ४५१) त्रप्र० । ‘णेरनिटि' (४।३८३) णिचलोपः । 'अघोषे प्रथमोऽशिटः' (११३५०) द० → त० । प्रथमा सि । 'सो रुः' (२११७२) स० → र० । 'र: पदान्ते०' (१३५३) विसर्गः ।।छ।।
एकोपसर्गस्य च घे ।।४।२।३४।। [एकोपसर्गस्य] एक उपसर्गो यस्य स एकोपसर्गः, तस्य ।
[च] “च"शब्दोऽप्यर्थे ।
[घे] घ सप्तमी ङि ।
[प्रच्छदः] 'छदण् संवरणे' (१६५५) छद् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० → इ । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धि: आ । प्रच्छाद्यतेऽनेनेति प्रच्छदः । 'पुन्नाम्नि घः' (५।३।१३०) घप्र० -→ अ । अनेन ह्रस्वः ।
[उपच्छदः] उपच्छाद्यतेऽनेनेति उपच्छदः । 'पुन्नाम्नि घः' (५।३।१३०) घप्र० → अ । अनेन ह्रस्वः ।
[छदः छादि णिजन्तो मण्ड्यते । छाद्यतेऽनेनेति । 'पुन्नाम्नि घः' (५।३।१३०) घप्र० । अनेन हूस्वः । 'णेरनिटि' (४।३।८३) णिच्लोपः ।
[सप्तच्छदः] सप्तन् । सप्त छदा अस्येति सप्तच्छदः ।
[उरश्छदः] उरसश्छद: = उरश्छदः ।
[दन्तच्छद:] दन्तानां छद: = दन्तच्छद: । प्रथमा सि । 'सो रुः' (२११७२) स० → र० । 'रः पदान्ते०' (१३५३) विसर्गः ।
[समुपच्छादः] छादि मांडणीयइ, सम्-उपपूर्व० । समुपच्छाद्यतेऽनेनेति । 'पुन्नाम्नि घः' (५।३।१३०) घप्र० → अ । 'णेरनिटि' (४।३।८३) णिच्लोपः । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः ।
[समुपाभिच्छाद:] छादि मांडणीयइ, सम्-उप-अभिपूर्व० । समुपाभिच्छाद्यतेऽनेनेति । 'पुन्नाम्नि घः' (५।३।१३०) घप्र० → अ । 'णेरनिटि' (४।३।८३) णिच्लोपः । प्रथमा सि । ‘सो रुः' (२११७२) स० → र० । 'रः पदान्ते०' (१३५३) विसर्गः । . P. 'छदण् अपवारणे' (१९६४) छन् ।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org