SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य द्वितीयः पादः ।। [वमयति, वामयति] 'टुवमू उगिरणे' (९६९) वम् । वमन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'ज्यिति' (४।३।५०) उपान्त्यवृद्धिः आ । अनेन वा ह्रस्वः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव् (३।४।७१) शव् । 'नामिनों गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । [नमयति, नामयति] ‘णमं प्रत्ये' (३८८) णम् । 'पाठे धात्वादेर्णो नः' (२।३।९७) नम् । नमन्तं प्रयुक्ते । ‘प्रयोक्तृ०' (३।४।२०) णिग्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । अनेन वा ह्रस्वः । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [अज्चालि, अज्वलि ण्यन्त"ज्वलि' इत्यादिर्मण्ड्यते । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) जिच-तलोपश्च । अनेन वा दीर्घः । 'अड़ धातोरादि०' (४।४।२९) अट् । ज्वालंज्वालम, ज्वलंज्वलम] अभीक्ष्णं ज्वलनं पूर्वम् । 'ख्णम् चाभीक्ष्ण्ये' (५।४।४८) ख्णमप्र० । अनेन वा दीर्घः । ‘णेरनिटि' (४।३।८३) णिग्लोपः । 'भृशा-ऽऽभीक्ष्ण्या-ऽविच्छेदे द्विः प्राक् तमबादे:' (७।४।७३) द्विः । [प्रज्वलयति] 'ज्वल दीप्तौ' (९६०) ज्वल, प्रपूर्व० । प्रज्वलन्तं प्रयुक्ते । ‘प्रयोक्तृ०' (३।४।२०) णिग्प० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'घटादेहूस्वो०' (४।२।२४) हूस्वत्वम् । [प्रवनयति] प्रवनयतीत्यत्र 'कगे-वन-जनै-जष्-क्नस्-रजः' (४।२।२५) इति इस्वत्वम् । [प्रवमयति] प्रवमयतीत्यत्र ‘अमोऽकम्यमि-चमः' (४।२।२६) ह्रस्वत्वम् । [प्रणमयति] प्रणमन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'अमोऽकम्यमि-चमः' (४।२।२६) हस्वत्वम् । ग्ला-स्नोरप्राप्ते, शेषाणां तु प्राप्ते विभाषा ।।छ।। छदेरिस्-मन्-बट-क्वौ ।।४।२।३३।। [छदेः] छदि पप्ठी डस् । इस्मन्त्रटक्चौ] इस् च मन् च त्रट् च क्विश्च = इस्मन्त्रवि, तस्मिन् । [छदि: 'छदण संवरणे' (१६५५) छद् । 'चुरादिभ्यो णिच्' (३।४।१७) णिचप्र० । 'णिति' (४।३५०) उपान्त्ववृद्धिः आ । छादयतीति । 'रुच्यर्चि-शुचि-हु-सृपि-छादि-दिभ्य इस्' (उणा० ९८९) इस्प० । अनेन ह्रस्वः । ‘णेरनिटि' (४।३।८३) णिच्लोपः । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः । [छदम छादि ।+ छादयतीति । 'मन्' (उणा० ९११) मनप्र० । अनेन ह्रस्वः । 'णेरनिटि' (४।३।८३) णिचलोपः । [छत्त्रम्] छादि । छादयतीति । त्रट्' (उणा० ४४६) त्रटप्र० → त्र । अनेन ह्रस्वः । ‘णेरनिटि' (४।३।८३) णिचुलोपः । 'अघोषे प्रथमोऽशिटः' (१३५०) द० → त० । सि-अम् । [छत्त्री] छादि । छादयतीति । 'त्रट्' (उणा० ४४६) त्रटप० →त्र । अनेन ह्रस्वः । ‘णेरनिटि' (४।३।८३) णिचलोपः । 'अघोषे प्रथमोऽशिटः' (११३५०) द० त० । 'अणजेयेकण-ना-स्नञ-टिताम' (२।४।२०) डी→ई । 'अस्य P. ' 'छदण अपवारणे' (१९६४) छन् । P. + छादयतीति । 'मन्-वन-क्वनिप्-विच् क्वचित्' (५।१।१४७) मनप० । अनेन हूस्वः । पथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः । Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy