________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । यम् । यच्छन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ, तदा अनेन ह्रस्वः ।
२४
[ अयामि, अयमि] यम् । अयंसीत् कश्चित् सो येमिवान् अन्येन प्रायोजि । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः । अनेन ह्रस्वः । अद्यतनी त । 'भावकर्मणोः' (३।४।६८) ञिच्-तलोपश्च । अनेन वा दीर्घः । 'अड् धातोरादि० ' ( ४।४।२९) अट् ।
[यामंयामम्, यमंयमम् ] ण्यन्तह्रस्वयुतः यमि । अभीक्ष्णं यमनं पूर्वम् । 'ख्णम् - चाभीक्ष्ण्ये' (५।४।४८) ख्णम्प्र० । अनेन वा दीर्घः । 'णेरनिटि' (४।३।८३) णिग्लोपः । भृशा -ऽऽभीक्ष्ण्या-विच्छेदे०' (७।४।७३) द्विः ।
[ यामयति अतिथीन् ] 'यमूं उपरमे' (३८६) यम् । यच्छन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । अतिथि द्वितीया शस् ।
[यामयति चन्द्रमसम्] 'यमण् परिवेषणे' (१६८१) यम् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शब् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । परिवेषणं वेष्टनं करोति कारयति वेत्यर्थः ।
=
[ स्यामयते ] 'स्यमिण् वितर्के' (१८३५) स्यम् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति ' ( ४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् ।
[ अस्यामि ] स्यामि । अद्यतनी त । 'भाव- कर्मणोः ' ( ३।४।६८) 'ञिच्-तलोपश्च । 'णेरनिटि' (४।३।८३) णिज्लोपः । 'अड् धातोरादि०' (४।४।२९ ) अट् ।
[स्यामंस्यामम् ] णिजन्तः स्यामि । अभीक्ष्णं स्यामनं पूर्वम् । 'ख्णम्- चाभीक्ष्ण्ये' (५।४।४८) ख्णम्प्र० । 'णेरनिटि ' (४।३।८३) णिज्लोपः । 'भृशा - ऽऽभीक्ष्ण्या-ऽविच्छेदे० ' (७/४/७३) द्विः ||छ ||
मारण- तोषण- निशाने ज्ञश्च ||४|२|३०||
[मारणतोषणनिशाने] मारणं च तोषणं च निशानं च = मारणतोषणनिशानम्, तस्मिन् ।
[ज्ञः ] ज्ञा षष्ठी डस् । 'लुगाऽऽतोऽनापः ' (२।१।१०७) आलोपः ।
[च] च प्रथमा सि ।
चकारो णिचि चेत्यस्याऽनुकर्षणार्थः ।
[संज्ञपयति पशुम् ] 'ज्ञांश् अवबोधने' (१५४०) ज्ञा, सम्पूर्व० । संज्ञा ( जा ) नन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग् ( ३।४।२० ) णिग्प्र० । ' ज्ञाण् मारणादिनियोजनेषु' (१७२०) ज्ञा । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । 'अर्त्ति - री - व्ली- क्नूय ० ' ( ४।२।२१) पोऽन्तः । अनेन ह्रस्वः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
तोषणे- [ज्ञपयति गुरुम् ] ज्ञा । जानन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । 'अर्त्ति - री - व्ली-हीक्नूयि०' (४।२।२१) पोऽन्तः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । गुरु द्वितीया अम् । अनेन ह्रस्वः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org