________________
अथ चतुर्थाध्यायस्य द्वितीयः पादः ॥
[विज्ञपयति राजानम्] वि-ज्ञा । विजानन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'अर्त्ति-री-व्लीह्री-क्नूयि०' (४।२।२१) पोऽन्तः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्ङिति' (४३ 19 ) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । अनेन ह्रस्वः । राजन् द्वितीया अम् ।
निशाने- निशानम् = तेजनम् तीक्ष्णकरणम्
[ज्ञपयति शरान्] ज्ञा । जानन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'अर्त्तिरी - व्ली - ही क्नूयि० ' (४।२।२१ ) पोऽन्तः । अनेन ह्रस्वः ।
-
[ प्रज्ञपयति शस्त्रम् ] प्र-ज्ञा । प्रजानन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'अर्त्ति-री-व्ली-हीक्नूयि०' (४।२।२१) पोऽन्तः । अनेन ह्रस्वः ।
[ अज्ञापि, अज्ञपि] ज्ञपि मांडणीयइ । अद्यतनी त । 'भावकर्मणोः' ( ३।४।६८) ञिच्-तलोपश्च । 'णेरनिटि' ( ४ | ३ |८३) णिग्लोपः । पूर्वं अनेन वा दीर्घः ।
२५
[ज्ञापंज्ञापम्, ज्ञपंज्ञपम् ] ज्ञपि । अभीक्ष्णं ज्ञपनं पूर्वम् । 'ख्णम्- चाभीक्ष्ण्ये' (५।४।४८) खणम्प्र० । अनेन वा दीर्घः । 'णेरनिटि' (४।३।८३) णिग्लोपः । भृशा ऽऽभीक्ष्ण्याऽविच्छेदे द्विः प्राक् तमवादेः' (७।४।७३) द्विः ।
इह पूर्वत्र च सूत्रे णिचि अणिचि च णौ रूपसाम्येऽप्यर्थभेदः, एकत्र स्वार्थोऽन्यत्र प्रयोक्तृव्यापारः ॥ छ ||
चहणः शाठ्ये ||४ |२ |३१||
[ चहणः ] चहण षष्ठी इस् ।
[शाठ्ये] शठ । शठस्य भावः । 'पति- राजान्त - गुणाङ्ग-राजादिभ्यः कर्मणि च' (७।१।६०) ट्यण्प्र०य । 'वृद्धिः स्वरेष्वादेर्जिगति तद्धिते' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः तस्मिन् ।
णिजन्तस्य णिगन्तस्य
शाठ्ये ननु भौवादिक्रेन चौरादिकेन च चहधातुना भविष्यति, किमर्थमिदम् ? सत्यम् चार्थभेदात् वचनम् । सूत्राभावेऽपि णिगन्तेन चौरादिकेन सर्वाण्यपि रूपाणि सिध्यन्त्येव, नैवम् चाहिष्यते इति सिध्यन्ति, तदा भौवादिकेनाणिगन्तेन भाव्यम् ।
-
[चहयति] 'चहण् कल्कने' (१९२४) चह । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । 'अतः ' ( ४।३।८२) अलोपः । चा (च) हयन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । अनेन ह्रस्वः ।
[चाहिष्यते, चहिष्यते] चहि पूर्ववत् । भविष्यन्ती स्यते । 'स्वर -ग्रह- दृश- हन्भ्यः स्य- सिजाशी:- श्वस्तन्यां ञिट् वा ' ( ३।४।६९) ञिप्र० इ । अनेन वा दीर्घः । 'नाम्यन्तस्था० ' (२|३|१५ ) पत्वम् ।
Jain Education International
[अचाहि, अहि] चहि मांडणीयइ । अद्यतनी त । 'भाव - कर्मणोः ' ( ३।४।६८) ञिच्-तलोपश्च । अनेन वा दीर्घः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[ चाहंचाहम्, चहचहम् ] चहि मांडणीयइ । अभीक्ष्णं चहनं पूर्वम् । ख्णम् - चाभीक्ष्ण्ये' (५१४१४८) ख्णम्प्र० । अनेन वा दीर्घः । 'णेरनिटि' ( ४ | ३ |८३) णिग्लोपः । भृशा - ऽऽभीक्ष्ण्याऽविच्छेदे द्विः ० ' ( ७।४।७३) द्विः ।
इदमुदाहरणं बृहद्वृत्तौ नास्ति ।
For Private & Personal Use Only
www.jainelibrary.org