________________
अथ चतुर्थाध्यायस्य द्वितीयः पादः ॥
२३
पर्यस्खादि, पर्यस्खदि परिस्खदि पूर्ववत् । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) अिच् -> इ-तलोपश्च । 'अड् धातोरादि०' (४।४।२९) अट् । अनेन वा दीर्घः ।
[परिस्खादंपरिस्खादम्, परिस्खदंपरिस्खदम् ण्यन्तहस्वयुतः परिस्खदि मण्ड्यते । अभीक्ष्णं परिस्खदनं पूर्वम् । 'खगाम्चाभीक्ष्ण्ये' (५।४|४८) ख्णमप० । अनेन वा दीर्घः । ‘णेरनिटि' (४।३।८३) णिगलोपः । 'भृशा-55भीक्षाया-ऽविच्छेदे०' (७।४।७३) द्विः ।
[अपस्खदयति] 'स्खदिष् खदने' (१००५) स्खद्, अपपूर्व० । अपस्खदमानं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । अनेन ह्रस्वः । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[अपास्खादि, अपास्खदि] अपस्खदि मण्ड्यते । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) ञिच → इ-तलोपश्च । ‘अड् धातोरादि०' (४।४।२९) अट् । अनेन वा दीर्घः ।
[अपस्खादमपस्खादम्, अपस्खदमपस्खदम] ण्यन्तहस्वयुतः अपस्खदि मण्ड्यते । अभीक्ष्णमपस्खदनं पूर्वम् । 'ख्णम चाभीक्षण्ये' (५।४।४८) ख्यमप्र० । 'णेरनिटि' (४१३१८३) णिगलोपः । अनेन वा दीर्घः । भृशा-ऽऽभीक्ष्ण्या-ऽविच्छेदे०' (७।४।७३) द्विः ।
स्खदेर्घटादिपाठेन सिद्धे नियमार्थं वचनम् ।।छ।।
शमोऽदर्शने ।।४।२।२८॥ [शमयति रोगम्] 'शमू उपशमे' (१२३०) शम् । शाम्यन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । अनेन ह्रस्वः ।
अशामि, अशमि] ण्यन्तहस्वयुतः शमि मण्ड्यते । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) जिच-तलोपश्च । अनेन वा दीर्घः । 'अड् धातोरादि०' (४।४।२९) अट् ।
शामंशामम, शमंशमम] शमि । अभीक्ष्णं शमनं पूर्वम् । 'ख्णम्-चाभीक्ष्ण्ये' (५।४।४८) ख्णमप्र० । अनेन वा दीर्घः । ‘णेरनिटि' (४।३।८३) णिग्लोपः । 'भृशा-ऽऽभीक्ष्ण्या-ऽविच्छेदे०' (७।४।७३) द्विः ।
निशामयति रूपम् निशाम्यति रूपं कर्तृ, तन्निशाम्यत् अन्यः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । 'ज्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । पश्यन्तीत्यर्थः ।।छ।।
यमोऽपरिवेषणे णिचि च ।।४।२।२९।।
[यमः] यम् षष्ठी डस् । [अपरिवेषणे] परिवेष्यते = परिवेषणम, परिवेषणं-धान्यस्य दानं-परिवेष्टनं वा, न परिवेषणमपरिवेषणम, तस्मिन ।
[णिचि] णिच् सप्तमी ङि । [च] च प्रथमा सि । [यमयति] 'यमण परिवेषणे' (१६८१) यम् । 'चुरादिभ्यो णिच्' (३।४।१७) णिचप्र० । यदा 'यमूं उपरमे' (३८६)
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org