________________
अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥
श्वा च = चतुष्पात्पक्षिश्चन्, तस्मिन् = चतुष्पात्पक्षिशुनि । 'श्वन्- युवन् मघोनां डी- स्याद्यघुट्स्वरे वं उ:' ( २।१।१०६) इति
व० → उत्वम् ।
[हृष्टाऽन्नाऽऽश्रयार्थे] तुषं (१२१३ ) - 'हृषच् तुष्टी' (१२१४) हृष् । हर्षणं हृष्टिः । 'स्त्रियां क्तिः ' ( ५|३|९१ ) क्तिप्रति । तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां०' (१।३।६०) त०ट० । हृष्टिरस्याऽस्ति । 'अभ्रादिभ्यः' (७।२।४६ ) इति अप्र० । अद्यते तैरित्यन्नम् । 'ज्ञानेच्छाऽर्चाऽर्थ अच्छील्यादिभ्यः क्तः' (५।२।९२) क्तप्रत । 'अदोऽनन्नात्' (५।१।१५०) इति ज्ञापकात् न जग्धादेशः । 'रदादमूर्च्छ-मदः क्तयोर्दस्य च' (४।२।६९) द-त० न० । अन्नं च आश्रयश्च = अन्नाऽऽश्रयौ | अर्थणि उपयाचने' (१९३१) अर्थ । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । 'अतः ' (४।३।८२) अलोपः । अन्नाऽऽश्रयौ अर्थयेते = अन्नाऽऽश्रयाऽर्थो । 'कर्मणोऽण्' (५।१।७२ ) अण्प्र० । 'णेरनिटि ' ( ४ | ३ |८३) णिच्लोपः । हृष्टश्च अन्नाऽऽ - श्रयाऽर्थौ च = हृष्टाऽन्नाऽऽश्रयार्थम्, तस्मिन् ।
[ अपस्किरते वृषभो हृष्टः] अप 'कृत् विक्षेपे' (१३३४) कृ । अनेन स्सट् । वर्त्त० ते । 'तुदादेः श:' ( ३ | ४|८१ ) शप्र० । ‘ॠतां क्ङितीर्’ (४|४|११६) इर् । वृषभ प्रथमा सि । हृष्ट प्रथमा सि । हर्षाद्विलिख्य तटं विक्षिपतीत्यर्थः ।
[ अपस्किरते कुक्कुटो भक्ष्यार्थी] 'अर्थणि उपयाचने' (१९३१) अर्थ | भक्ष्यमर्थयते = भक्ष्यार्थी । 'अजातेः शीले' (५।१।१५४) णिन्प्र० । कुक्कुटो विलिख्यावस्करं विक्षिपतीत्यर्थः ।
३३१
=
[ अपस्किरते श्राश्रयार्थी] आश्रयमर्थयत इत्येवंशीलः । 'अजातेः शीले' (५।१।१५४) णिन्प्र०, श्वा । विलिख्य भ विक्षिपतीत्यर्थः ॥छ ।।
[प्रात्] प्र पञ्चमी इसि ।
[तुम्पतेः ] तुम्पति षष्ठी स् ।
[ गवि ] गो सप्तमी ङि ।
वी विष्किरो वा || ४|४|१६||
[व] वि सप्तमी ङि ।
[विष्किरः ] विष्किर प्रथमा सि ।
[वा] वा प्रथमा सि ।
[विष्किरः ] 'कृत् विक्षेपे' (१३३४) कृ, विपूर्व० । विकिरतीति । 'नाम्युपान्त्य- प्री-कृ-गृ-ज्ञः कः' (५।१।५४) कप० । अनेन स्सट् । ‘ऋतां क्डितीर्' ( ४|४|११६) इर् । 'असोङ-सिवू-सह-स्सटाम्' (२।३।४८ ) षत्वम् । पक्षिविशेषः ।।छ।।
प्रात् तुम्पतेर्गवि ||४।४।९७ ।।
Jain Education International
[ प्रस्तुम्पति गौः ] तुप (३४३) - 'तुम्प हिंसायाम्' (३४४) तुम्पू, प्रपूर्व० । अनेन स्सट् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१) शब् । गो प्रथमा सि ।
[ प्रस्तुम्पति वत्सो मातरम् ] तुम्प्, प्रपूर्व० । अनेन सट् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । वत्स प्रथमा सि । मातृ द्वितीया अम् ।
[ प्रस्तुम्पको वत्सः ] प्रस्तुम्पतीति । 'णक-तृचौ' (५।१।४८ ) णकप्र० अक । प्रथमा सि । वत्स प्रथमा सि ।
For Private & Personal Use Only
www.jainelibrary.org