SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [प्रस्तुम्पको देश: ] प्रगतः स्तुम्पोऽस्मात् = प्रस्तुम्पको देश: । 'शेषाद्वा' (७।३।१७५) कच्प्र० क । मतान्तरे सभवत्यत्र ॥छ । ३३२ उदितः स्वरान्नोऽन्तः || ४|४|१८|| [ उदितः ] उत् इदनुबन्धो यस्याऽसौ उदित्, तस्य । [ स्वरात्] स्वर पञ्चमी इसि । [ नोऽन्तः ] न प्रथमा सि । सो रु ' (२।१।७२) स०र० । 'अतोऽति रोरु: ' (१।३।२०) २० उ० । 'अवर्णस्ये० ' (१।२।६) ओ । अन्त प्रथमा सि । [नन्दति ] 'टुनदु समृद्धी' (३१२) नद् । अनेन नोऽन्तः । वर्त्त० तिब् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । [निन्दति ] 'णिदु कुत्सायाम्' (३११) णिद् । 'पाठे धात्वादेर्णो नः' (२।३।९७) निद् । अनेन नोऽन्तः । वर्त्त० ति । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । [ निन्दि ( द ) तः ] निद् । अनेन नोऽन्तः । वर्त्त० तस् । ' कर्त्तर्य० ' ( ३।४।७१ ) शव् । [कुण्डिता ] 'कुडुङ् दाहे' (६९०) कुड् । अनेन नोऽन्तः । श्वस्तनी ता । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । [हुण्डिता ] 'हुडुङ् संघाते' (६८३) हुड् । अनेन नोऽन्तः । श्वस्तनी ता । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । अयं चोपदेशावस्थायामेव भवत्यनैमित्तिकत्वात् तेन [ कुण्डा ] कुड् । अनेन नोऽन्तः । कुण्डनं = कुण्डा | 'क्तेटो गुरोर्व्यञ्जनात्' (५।३।१०६) अप्र० । 'आत्' (२।४।१८) आ । आप्प्र० [हुण्डा ] हुड् । अनेन नोऽन्तः । हुण्डनं = हुण्डा । 'क्तेटो गुरोर्व्यञ्जनात्' (५।३।१०६) अप्र० । 'आत्' (२।४।१८ ) आप्प्र० आ ||छ || मुचादि-तृफ-दृफ-गुफ-शुभोभः शे || ४|४|१९|| [मुचादितृफट्टफगुफशुभोभः ] मुच् आदिर्येषां ते = Jain Education Intemational मुचादय:, मुचादयश्च तृफश्च दृफश्च गुफश्च शुभश्च उभ् च = मुचादितृफदृफगुफशुभोभ्, तस्य । [शे] श सप्तमी ङि । [ मुञ्चति] 'मुच्लृती मोक्षणे' (१३२०) मुच् । वर्त्त० तिव् । 'तुदादेः श:' ( ३ | ४ |८१) शप्र० । अनेन नोऽन्तः । [मुञ्चते] मुच् । वर्त्त० ते । 'तुदादे: श:' ( ३।४।८१) शप्र० । अनेन नोऽन्तः । [सिञ्चति ] 'षिचत् क्षरणे' (१३२१) षिच् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सिच् । वर्त्त० तिव् । 'तुदादेः श:' ( ३।४।८१ ) शप्र० । अनेन नोऽन्तः । : [ सिञ्चते] सिच् । वर्त्त० ते । 'तुदादेः श:' ( ३ | ४ | ८१ ) शप्र० । अनेन नोऽन्तः । [विन्दति ] 'विद्लृती लाभे' (१३२२) विद् । वर्त्त० तिव् । 'तुदादेः श:' ( ३।४।८१) शप्र० । अनेन नोऽन्तः । For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy