________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
३३०
किरो लबने ।।४।४।९३।।
[किरः] किर् षष्ठी डस् । लवने लवन सप्तमी ङि ।
[उपस्कीर्य मद्रका लुनन्ति, उपस्कारं मद्रका लुनन्ति] 'कृत् विक्षेपे' (१३३४) कु उपपूर्व० । अनेन स्सट् → स्० । उपस्करणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'ऋतां विडतीर्' (४।४।११६) इर् । 'भ्वादे मिनो०' (२११६३) दीर्घः । तेनैव वाक्येन 'उपात् किरो लवने' (५।४।७२) णम्प० → अम् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । मद्र । मदेषु भवाः = मद्रकाः । 'वृजि-मद्राद् देशात् कः' (६।३।३८) कप० । प्रथमा जस् । 'लूगश् छेदने' (१५१९) लू । वर्त० अन्ति । 'क्यादेः' (३।४।७९) श्नाप्र० →ना । 'प्वादेहूस्वः' (४।२।१०५) हूस्वः । 'श्नश्चाऽऽतः' (४।२।९६) आलोपः । विक्षिप्य लुनन्तीत्यर्थः ।
[उपकिरति पुष्पम् ‘कृत् विक्षेपे' (१३३४) कृ, उपपूर्व० । वर्त० तिव् । 'तुदादेः शः' (३।४।८१) शप्र० । 'ऋतां विडतीर्' (४।४।११६) इर् ||छ।।
प्रतेश्च वधे ।।४।४।९४।।
[प्रतिस्कीर्णं ह ते वृषल भूयात् 'कृत् विक्षेपे' (१३३४) कृ, प्रतिपूर्व० । अनेन स्सट् । प्रतिस्करणं = प्रतिस्कीर्णम् । 'क्लीबे क्तः' (५।३।१२३) क्तप्र० → त । 'ऋतां विडतीर्' (४।४।११६) इर् । 'रदादमूर्च्छ-मदः क्तयोर्दस्य च' (४।२।६९) त० → न० । 'र-पृवर्णान्नो ण०' (२।३।६३) न० → ण । 'भ्वादे मिनो दीर्घा र्वोर्व्यञ्जने' (२।१६३) दीर्घः । सिअम् । ह प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । युष्मद् षष्ठी डस् । 'डे-डसा ते में' (२१११२३) ते । वृषल आमन्त्र्ये सि । 'भू सत्तायाम्' (१) भू । आशीः क्यात् → यात् ।
[उपस्कीर्णं ह ते वृषल भूयात्] 'कृत् विक्षेपे' (१३३४) कू, उपपूर्व० । अनेन स्सट् । उपस्करणं = उपस्कीर्णम् । 'क्लीवे क्तः' (५।३।१२३) क्तप्र० → त । 'ऋतां विडतीर्' (४।४।११६) इर् । ‘रदादमूर्छ०' (४२१६९) त० → न० । 'र-पृवर्णान्नो ण०' (२।३।६३) न० →ण० । 'भ्वादेर्नामिनो०' (२।१६३) दीर्घः । सि-अम् । ह प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । युष्मद् षष्ठी डस् । 'डे-डसा ते मे' (२।१२३) ते । वृषल आमन्त्र्ये सि । 'भू सत्तायाम्' (१) भू । आशीः क्यात् → यात् । हिंसानुबन्धी विक्षेपस्ते भूयादित्यर्थः ।
[उरोविदारं प्रतिचस्करे नखैः] उरस् ‘दृश् विदारणे' (१५३५) दू, विपूर्व० । विदारणं पूर्वम् । 'परिक्लेश्येन' (५।४८०) णम्प० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । कृ, प्रतिपूर्व० । अनेन वा स्सट् । परोक्षा ए । 'द्विर्धातुः परोक्षाडे०' (४।११) द्विः । 'अघोषे शिटः' (४।१।४५) सलुक् । 'हूस्वः' (४।१।३९) इस्वत् । 'ऋतोऽत्' (४।१।३८) ऋ० → अं० । 'क-डश्च-ञ्' (४।१।४६) क० → च० । 'स्कृच्छृतोऽकि परोक्षायाम्' (४।३।८) गु० अर् । हत इत्यर्थः ।
[प्रतिकीर्णं बीजम्] प्रतिकीर्यते स्म = प्रतिकीर्णम् । विक्षिप्तमित्यर्थः ।।छ।।
अपाच्चतुष्पात-पक्षि-शुनि-हृष्टा-ऽन्ना-ऽऽश्रयाऽर्थे ।।४।४।९५।। [अपात् अप पश्चमी इसि ।
[चतुष्पात्पक्षिशुनि] चत्वारः पादा यस्याऽसौ चतुष्पात् । 'सु-संख्यात्' (७।३।१५०) पाद० → पात्० । 'निर्दुर्बहिराविष्पाद्रुश्चतुराम्' (२।३।९) र० → ष० | पक्षी विद्येतेऽस्य । 'अतोऽनेकस्वरात (७।२।६) इनप्र० । चतुष्पाच्च पक्षी च
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org