SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ अ० → इ० । 'अड् धातोरादि०' (४।४।२९) अट् । [संकृतिः ] संकरणं [संकरः ] 'कृत् विक्षेपे' (१३३४) कृ, सम्पूर्व० । संकरणं अल्प्र० अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । = संकृतिः । गर्गादिगणपठितत्वात् गर्गादि० क्तिप्र० →ति । [ परिकरः ] कृ, परिपूर्व० । परिकरणं 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । [ संकारः ] कृ, सम्पूर्व० । संकरणं = संकारः । बहुलाधिकारात् घञ्प्र० । 'नामिनोऽकलि-हले : ' ( ४।३।५१) वृ० आर् । = संकरः । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) [समचिस्करत्] स्सडिति द्विसकारनिर्देशात् समचिस्करदित्यादौ षो न भवति । अस्य साधना पूर्ववत् । टकार: 'स्सटि समः ' (१।३।१२ ) इत्यत्र विशेषणार्थः ॥ छ।। Jain Education Intemational परिकरः । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) अल्प्र० अ । उपाद् भूषा-समवाय- प्रतियत्न-विकार-वाक्याऽध्याहारे ||४|४|१२|| ३२९ [ उपात्] उप पञ्चमी इसि । [भूषासमवायप्रतियत्नविकारवाक्याऽध्याहारे] भूषा च समवायश्च प्रतियत्नश्च विकारश्च वाक्याऽध्याहारश्च = भूषा समवायप्रतियत्नविकारवाक्याऽध्याहारम्, तस्मिन् । भूषा = अलङ्कारः [कन्यामुपस्करोति] कन्या द्वितीया अम् । उप-कृ । अनेन स्स० सू० । वर्त्त० तिव् । 'कृग्तनादेरुः' ( ३।४।८३) उप्र० । 'नामिनो गुणोऽक्ङिति' (४१३११) गु० अर् । 'उ-श्नोः' (४।३।२) गु० ओ । भूषयतीत्यर्थः । समवायः = समुदायः [तत्र न उपस्कृतम् ] तद् । तस्मिन् = तत्र । 'सप्तम्याः' (७।२।९४) त्रप्प्र० । प्रथमा सि । ‘अव्ययस्य' (३।२।७) सिलुप् । अस्मद् षष्ठी आम् । 'पदाद् युग्विभक्त्यैकवाक्ये वस्- नसौ बहुत्वे' (२1१।२१) आम्ह नसादेशः । कृ, उपपूर्व० । उपस्क्रियते स्म । क्तप्र० त । सि-अम् । समुदितमित्यर्थः । पुनर्यत्नः = प्रतियत्नः । सतोऽर्थस्य संबंधाय वृद्धये तादवस्थ्याय वा समीहा = प्रतियत्नः [ एधोदकस्योपस्कुरुते ] |एधाश्च उदकं च = • एधोदकम्, उपस्कुरुते । 'गन्धना -ऽवक्षेप-सेवा-साहस-प्रतियत्न-प्रकथनोपयोगे' (३ । ३ । ७६) इत्यात्मनेपदम् । तत्र प्रतियतत इत्यर्थः । P. 'क्लीवे क्तः' (५|३|१२३) क्तप्र० → त । [उपस्कृतं भुङ्क्ते] उपस्क्रियते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० त, भुङ्क्ते विकृतमित्यर्थः । गम्यमानार्थस्य वाक्यैकदेशस्य स्वरूपेणोपादानं वाक्याऽध्याहारः [उपस्कृतं जल्पति] उपस्क्रियते स्म । क्तक्तवतू' (५1१।१७४) क्तप्र० →त । द्वितीया अम् । [सोपस्काराणि सूत्राणि] उपस्करणं = उपस्कारः । भावा- ऽकर्त्री : ' ( ५।३।१८ ) घञ्प्र० । 'नामिनोऽकलि-हले ः ' ( ४ | ३ |५१) वृ० आर् । सह उपस्कारेण वर्त्तन्ते सोपस्काराणि सूत्राणि । सवाक्याध्याहाराणीत्यर्थः ॥ छ। - For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy