________________
३२८
संपरेः कृगः स्ट् ||४|४|११ ॥
=
[संपरेः] सम् च परिश्च संपरि, तस्मात् ।
[कृगः ] कृग् षष्ठी डस् ।
[स्सट् ] सकारेण उपलक्षितः सद् = स्सट् । प्रथमा सि ।
[संस्करोति कन्याम्] ‘डुकृंग् करणे' (८८८) कृ, सम्पूर्व० । अनेन स्ट्०स्० । वर्त्त० तिव् । 'कृग्-तनादेरुः ' (३।४।८३) उप्र० । ‘नामिनो गुणोऽक्ङिति ' ( ४|३|१) गु० अर् । 'उ-श्नोः' (४।३।२) गु० ओ । 'स्सटि समः ' (१।३।१२) मस्य अनुस्वारः । भूषयतीत्यर्थः ।
श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[ संस्कृतं वचनम् ] सम्-कृ । अनेन सट् स्० । संस्क्रियते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त ।
सि-अम् ।
[ संस्कारो वासना ] संस्करणम् । 'भावा- ऽकर्त्रीः ' ( ५।३।१८) घञ्प्र० अ । 'नामिनोऽकलि-हले:' ( ४ | ३ |५१ ) वृ० आर् ।
[ तत्र नः संस्कृतम्] तत्र नः षष्ठी डस् ( आम्) । संस्कृतं पूर्ववत् ।
[परिष्करोति कन्याम्] कृ, परिपूर्व० । अनेन स्ट्०स्० । वर्त्त० तिव् । 'कृग्-तनादेरुः' (३।४।८३) उप० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'उ-श्नोः' (४।३।२) गु० ओ । 'असोङ-सिवू-सह-स्सटाम्' (२।३।४८) षत्वम् ।
त ।
[ परिष्कृतम्] परिक्रियते स्म । 'क्तक्तवतू' ( ५1१।१७४) प्र० [ परिष्कारः ] परिष्करणम् । 'भावा ऽकर्त्री : ' ( ५।३।१८) घञ्प्र०
अ । शेषं स्पष्टम् । पूर्वं धातुरुपसर्गेण संबध्यते पश्चात् साधनेनेति द्विर्वचनादडागमाच्च पूर्वं स्सडेव भवति ।
[संचस्कार] ‘डुकृंग् करणे’ (८८८) कृ, सम्पूर्व० । परोक्षा णव् । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्विः । 'अघोषे शिटः' (४।१।४५) सलुक् । 'ऋतोऽत्' (४|१|३८) ऋ० अ० । 'क- डञ्श्च- ञ्' (४।१।४६) क०
च० । 'नामिनो -
Sकलि-हले ः ' (४।३।५१) वृ० आर् ।
[परिचस्कार ] कृ, परिपूर्व० । परोक्षा णव् । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्विः । 'अघोषे शिट : ' ( ४|१|४५) सलुक् । ‘ऋतोऽत्’ (४।१।३८) ऋ० अ० । 'क-डञ्श्च-ञ्' (४।१।४६) क० च० । 'नामिनोऽकलि-हले:' ( ४।३।५१)
वृ० आर् ।
Jain Education International
[समचिस्करत्] सम्-कृ । अनेन स्सट्० सू० । संस्कुर्वन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'नामिनो ऽकलि-हले ः ' ( ४ । ३ । ५१) वृ० आर् । अद्यतनी दित् । 'णि श्रि-दु-सु-कमः कर्त्तरि ङः' (३|४|५८) उप्र० → अ । द्विः । 'अघोषे शिट:' ( ४।१।४५) सलुक् । प्रथमं 'उपान्त्यस्याऽसमानलोपि शास्वृदितो ङे' (४।२।३५) ह्रस्वः, ततो द्विः । 'असमानलोपे सन्वल्लघुनि डे' (४|१|६३) अ० इ० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[पर्यचिस्करत्] परि- कृ । अनेन स्सट्० सू० । परिस्कुर्वन्तं प्रायुक्त । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हलैः' (४।३।५१) बृ० आर् । अद्यतनी दि→ त् । 'णि श्रि- द्रु- स्रु० ' ( ३।४।५८) ड० अ । द्विः । शिट:' ( ४।१।४५) सलुक् । प्रथमं 'उपान्त्यस्याऽसमानलोपि ० ' ( ४।२।३५) ह्रस्वः, ततो द्विः । ' असमानलोपे० ' ( ४।१।६३)
For Private & Personal Use Only
www.jainelibrary.org