________________
अथ चतुर्थाध्यायस्य द्वितीयः पादः ॥
१७
[वा] वा प्रथमा सि । [ञिणम्परे] निश्च णम् च = ञिणमौ, ञिणमौ परौ यस्मात् असौ ञिणम्परः, तस्मिन् ।
[घटयति] ‘घटिष् चेष्टायाम्' (१०००) घट् । घटमानं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'ञ्णिति' (४१३५०) उपान्त्यवृद्धिः आ । अनेन ह्रस्वः । वर्त्तः तिव् । 'कतर्यनद्भ्यः शव' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदेतोऽयाय' (१।२।२३) अय् ।
[अघाटि, अघटि] घट् । घटमानं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । अनेन ह्रस्वः । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) जिच-तलोपश्च । अनेन वा दीर्घः । ‘णेरनिटि' (४।३।८३) णिगलोपः । 'अड़ धातोरादि०' (४।४।२९) अट ।
_ [घाटघाटम्, घटंघटम्] घटमानं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः आ । अनेन ह्रस्वः । अभीक्ष्णं घटनं पूर्वम् । 'ख्णम् चाभीक्ष्ण्ये' (५।४।४८) ख्णम्प्र० । अनेन “दीर्घस्तु वा जि-णम्परे" पुनरपि वा दीर्घः । 'णेरनिटि' (४३.८३) णिगलोपः । 'भृशा-5ऽभीक्ष्ण्या-ऽविच्छेदे द्विः प्राक तमबादेः' (७।४७३) “घाटम्-घटम्” इति द्विवचनम् ।
व्यथयति] 'व्यथिषु भय-चलनयोः' (१००२) व्यथ् । व्यथमानं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । अनेन ह्रस्वः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।१७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (११२।२३) अय् ।
[अव्याथि, अव्यथि] व्यथमानं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । अनेन ह्रस्वः । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) जिच-तलोपश्च । पुनरपि “दीर्घस्तु वा जि-णम्परे" इत्यनेन वा दीर्घः । ‘अड् धातोरादि०' (४।४।२९) अट् ।
[व्यार्थव्याथम्, व्यर्थव्यथम् व्यथमानं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । अनेन ह्रस्वः । अभीक्ष्णं व्यथनं पूर्वम् । 'ख्णम् चाभीक्ष्ण्ये' (५।४।४८) ख्णम्प० → अम् । अनेन वा दीर्घः । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'भृशा-5ऽभीक्ष्ण्या-ऽविच्छेदे द्विः प्राक् तमबादेः' (७।४७३) "व्याथम्-व्यथम्" द्विर्वचनम् । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः ।
हिडयति] 'हेड वेष्टने' (१०३५) हेड् । हेडन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । अनेन ह्रस्वः । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) ए । ‘एदैतोऽयाय्' (१।२।२३) अय् ।
[अहीडि, अहिडि हेडन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । अनेन ह्रस्वः । अद्यतनी त । 'भावकर्मणोः' (३।४।६८) जिच्-तलोपश्च । पुनरपि अनेन वा दीर्घः । 'अड् धातोरादि०' (४।४।२९) अट ।
[हीडंहीडम्, हिडंहिडम्] हेडन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग' (३।४।२०) णिगप्र० । अनेन हूस्वः । अभीक्ष्णं हेडनं पूर्वम् । 'ख्णम्-चाभीक्ष्ण्ये' (५।४।४८) ख्णम्प० → अम् । अनेन वा दीर्घः । ‘णेरनिटि' (४१३१८३) णिगलोपः । 'भृशाऽऽभीक्ष्ण्या०' (७।४।७३) द्विः ।
[अक्षाञ्जि, अक्षजि] 'क्षजुङ गति-दानयोः' (१००१) क्षज् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । क्षञ्जमानं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग' (३।४।२०) णिगप० । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) जिच-तलोपश्च । अनेन वा दीर्घः । 'अड़ धातोरादि०' (४।४।२९) अट् ।
।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org