________________
अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥
३१९
[जक्षिवान्] 'घस्लूं अदने' (५४४) घस् । जघास । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । अनेन इट् । 'द्विर्धातुः परोक्षा-२०' (४1१1१) द्वि: । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) घ० → ग० । 'ग-होर्जः' (४।१।४०) ग० → ज० । 'गम-हन-जन-खन-घसः स्वरेऽनङि क्डिति लुक' (४।२।४४) अलोपः । 'अघोषे प्रथमोऽशिटः' (१३५०) घ० → क० । 'घस्-वसः' (२।३।३६) षत्वम् । क-षसंयोगे क्ष० ।
[आदिवान] 'अदं भक्षणे' (१०५९) अद् । आद । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'अस्याऽऽदेराः परोक्षायाम्' (४।१।६८) आ । अनेन इट् ।
[आशिवान] 'अशश् भोजने' (१५५८) अश् । आश । 'तत्र क्वसु-कानौ तद्वत्' (५।२१२) क्वसुप्र० → वस् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्वि: । 'व्यञ्जनस्याऽनादेर्लुक' (४१।४४) अनादिव्यञ्जनलोपः । 'अस्याऽऽदेराः परोक्षायाम' (४११६८) आ । अनेन इट् ।
[ऊचिवान] 'वचंक भाषणे' (१०९६) वच् । उवाच । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । 'द्विर्धातुः परोक्षा-२०' (४1919) द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'यजादि-वश्-वचः सस्वरान्तस्था
वृत्' (४१७२) द्विरुक्तस्य य्वृत् व० → उ० । 'यजादि-वचेः किति' (४१७९) मूलधातोः वृत् । 'समानानां०' (१९२१) दीर्घः । अनेन इट् ।
[अनूचिवान् अनूवाच । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'यजादि-वश्-वचः०' (४।१७२) द्विरुक्तस्य य्वृत व० → उ०। 'यजादि-वचेः किति' (४19७९) मूलधातोः य्वृत् । 'समानानां०' (११२११) दीर्घः । अनेन इट् ।
[शेकिवान्] 'शक्लृट् शक्तौ' (१३००) शक् । शशाक । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । 'अनादेशाऽऽदेरेकव्यञ्जनमध्येऽतः' (४।१।२४) ए । अनेन इट् ।
[पेचिवान्] ‘डुपचींष् पाके' (८९२) पच् । पपाच । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । 'अनादेशाऽऽदेरेकव्यञ्जनमध्येऽतः' (४।१।२४) ए । अनेन इट् ।
उपसेदिवान] 'षद्लू विशरण-गत्यवसादनेषु' (९६६) षद् । 'षः सोऽष्ट्यै-ष्टिव-ष्वष्कः ' (२।३।९८) सद्, उपपूर्व० । उपससाद । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । 'अनादेशा०' (४।१।२४) ए । अनेन इट् ।
[ईयिवान्, समीयिवान्] 'इंण्क् गतौ' (१०७५) इ । इयाय । क्वसुप्र० → वस् । द्वित्वमपि नित्यं परमिटनित्यः परसु(?)भवति, प्रथमं द्वि: । 'इण:' (२११५१) इय् । 'समानानां०' (१४२११) दीर्घः । अनेन इट् । एवं समपूर्व० ।
[आरिवान्] 'ऋक् गतौ' (११३५) ऋ । आर । क्वसुप्र० → वस् । 'द्विर्धातुः परोक्षा-डे०' (४।११) द्वि: । 'ऋतोऽत्' (४११३८) ऋ० → अ० । 'अस्याऽऽदेराः परोक्षायाम्' (४।१।६८) आ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर । इट् ।
[पपिवान्] पा पाने' (२) पा । पपौ । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप० → वस् । 'द्विर्धातुः परोक्षाडे० ' (४।१।१) द्वि: । 'हस्वः' (४।१।३९) इस्वः । अनेन इट | ‘इडेत-पुसि चाऽऽतो लुक' (४।३।९४) आलोपः ।।
क्रियारत्नसमुच्चये - इटि पश्चाद् द्वित्वे 'ऋतोऽत्' (४।१।३८) इत्यत्वे, 'अस्याऽऽदेराः०' (४।१।६८) इत्यात्चे एकस्य स्थाने भवन् अल्पाश्रितो रत्वादेश इति ‘अवर्णस्ये०' (१।२।६) इत्यरं बाधित्वा ‘इवर्णादे०' (१।२।२१) इति रत्वे आरिवान् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org