________________
३२०
श्रीसिरदहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
[ययिवान] 'यांक प्रापणे' (१०६२) या । ययौ । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । 'द्विर्धातुः परोक्षा-डे०' (४1919) द्विः । 'हूस्वः' (४191३९) ह्रस्वः । अनेन इट् । 'इडेत्-पुसि चाऽऽतो लुक्' (४/३/९४) आलुक् ।
[तस्थिवान] 'ष्ठ गतिनिवृत्तौ' (५) ष्ठ । 'षः सोऽष्ट्यै-ष्ट्वि-ष्वष्कः' (२।३।९८) स्था । 'निमित्ताभावे०' (न्या० सं० वक्षस्कार (१) / सूत्र (२९)) स्था । तस्थौ । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । 'द्विर्धातुः परोक्षाडे०' (४1919) द्विः । 'अघोषे शिटः' (४।११४५) सलुक् । 'हस्वः' (४१३९) ह्रस्वः । “द्वितीय-तुर्ययोः पूर्वी' (४११४२) थ० → त० । अनेन इट् | ‘इडेत्-पुसि०' (४।३।९४) आलुक् ।
[जग्लिवान्] 'ग्लै हर्षक्षये' (३१) ग्लै । 'आत् सन्ध्यक्षरस्य' (४।२१) ग्ला । जग्लौ । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । 'द्विर्धातुः परोक्षा-डे०' (४।१1१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'हूस्वः' (४१३९) ह्रस्वः । 'ग-होर्जः' (४।१।४०) ग० → ज० । अनेन इट् । 'इडेत्-पुसि०' (४।३।९४) आलुक् ।
[बिभिद्वान्] 'भिदूंपी विदारणे' (१४७७) भिद् । बिभेद । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । 'द्विर्धातुः परोक्षा-डे०' (४1919) द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४११४४) अनादिव्यञ्जनलोपः । 'द्वितीय-तुर्ययोः पूर्वो' (४११४२) भ० → व० ।
[चिच्छिद्वान] 'छिदंपी द्वैधीकरणे' (१४७८) छिद् । चिच्छेद । तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । 'द्विर्धातुः परोक्षा-डे०' (४।११) द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४191४४) अनादिव्यञ्जनलोपः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१४२) छ० → च० ।
[बभूवान्] 'भू सत्तायाम्' (१) भू । बभूव । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भ० → ब० । 'भू-स्वपोरदुतौ' (४।१।७०) ऊ० → अ० ।
[उपशुश्रुवान्] 'श्रृंट् श्रवणे' (१२९६) श्रु, उपपूर्व० । उपशुश्राव । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । सर्वत्र प्रथमा सि । नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घड्याब०' (१।४।४५) सिलुक् । 'पदस्य' (२११८९) सलोपः ।
___ [बिभिदिव] 'भिदूंपी विदारणे' (१४७७) भिद् । परोक्षा व । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'द्वितीय-तुर्ययोः पूर्वो' (४।१।४२) भ० → ब० । 'स्क्रसृ-वृ-भृ-स्तु-द्रु-श्रु-स्रोळञ्जनादेः परोक्षायाः' (४।४।८१) इट् ।
[बिभिदिम भिद् । परोक्षा म । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४११४४) अनादिव्यञ्जनलोपः । 'द्वितीय-तुर्ययोः पूर्वो' (४।१।४२) भ० → ब० । 'स्क्रसृ-वृ-भृ-स्तु०' (४।४।८१) इट् ।
[दरिद्रांचकृवान्] 'दरिद्राक् दुर्गतौ' (१०९२) दरिद्रा । ददरिद्रौ । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० । 'धातोरनेकस्वरादाम् परोक्षायाः कृभ्वस्ति चानु तदन्तम्' (३।४।४६) वस्० → आम्० । 'डुकंग करणे' (८८८) कृ । चकार । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । 'द्विर्धातुः परोक्षा-डे०' (४।११) द्वि: । 'ऋतोऽत्' (४/१३८) ऋ० → अ० । 'क-डश्च-ञ्' (४।१।४६) क० → च० । पूर्वेण सिद्धे नियमार्थं वचनम् ।।छ।।
गम-हन-विद्लु-विश-दृशो वा ।।४।४।८३।। [गमहनविद्लूविशदृशः] गमश्च हनश्च विद्लुश्च विशश्च दृश् च = गमहनविद्लूविशदृश्, तस्मात् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org