________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[ररन्धिथ] 'रधीच् हिंसा-संरादयोः ' (११८८) रघ् । परोक्षा थव् । 'द्विर्धातुः परोक्षा ङे० ' ( ४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'स्क्रसृ-वृ-भृ-स्तु०' ( ४/४१८१ ) इट् । 'रध इटि तु परोक्षायामेव ' ( ४|४|१०१ ) नोऽन्तः ।
३१४
[शिश्रयिथ] 'श्रिग् सेवायाम्' (८८३) श्रि । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'स्क्रसृ-वृ-भृस्तु- दु० ' ( ४|४|८१ ) इट् । 'नामिनो गुणोऽक्ङिति' ( ४ | ३ |१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[पेचिव ] 'डुपचष् पाके' (८९२) पच् । परोक्षा व । 'द्विर्धातुः परोक्षा ङे प्राक्०' (४।१।१) द्विः । 'स्क्रसृ-वृ-भृस्तु-दु-श्रु स्रोर्व्यञ्जनादेः परोक्षायाः ' ( ४/४/८१ ) इट् । 'अनादेशाऽऽदेरेकव्यञ्जनमध्येऽतः' (४।१।२४) ए ।
[पेचिम] पच् । परोक्षा म । 'द्विर्धातुः परोक्षा- ङे प्राक् ० ' ( ४|१|१) द्विः । 'स्क्रसृ-वृ-भृ-स्तु०' (४।४।८१) इट् । 'अनादेशाऽऽदेरेकव्यञ्जनमध्येऽतः ' ( ४।१।२४) ए ।
[चकर्षिथ] 'कृषत् विलेखने' (१३१९) कृष् । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'क- डञ्च - ञ्' (४।१।४६) क० → च० । 'स्क्रसृवृ-भृ-स्तु०' (४।४।८१) इट् । 'लघोरुपान्त्यस्य' ( ४।३।४) गु० अर् ।
[जघसिथ ] 'अदं भक्षणे' (१०५९) अद् । परोक्षा थव् । 'परोक्षायां नवा' (४|४|१८) अ० घस्लृ० घ० । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'द्वितीय-तुर्ययोः पूर्वी ' (४।१।४२) घ०ग० । 'ग होर्ज : ' ( ४।१।४०) ग० ज० । 'स्क्रसृ-वृ-भृ०' (४।४।८१ ) इट् ।
[उवयिथ] 'वेंग् तन्तुसन्ताने' (९९२) वे । परोक्षा थव् । 'वेर्वय्' (४|४|१९) वय् । 'द्विर्धातुः परोक्षा-डे० ' (४|१|१) द्विः । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ' यजादि - वश् वचः सस्वरान्तस्था वृत्' (४।१।७२) व० उ० । 'स्क्रसृ-वृ-भृ-स्तु०' (४|४|८१ ) इट् ।
स्वरान्तत्वेनैव सिद्धे स्कृग्रहणं 'ऋतः ' ( ४।४।७९) इति प्रतिषेधबाधनार्थम् ॥छ||
ऋतः || ४|४|७९ ।।
[ ऋतः ] ऋत् पञ्चमी इसि ।
पृथग्योगाद्वेति निवृत्तः ।
[ जहर्थ] 'हंग् हरणे' (८८५) ह । परोक्षा थव् । 'द्विर्धातुः परोक्षाङे प्राक् ० ' ( ४1919) द्विः । 'ऋतोऽत्' (४|११३८ ) ऋ० अ० । 'ग- होर्ज:' ( ४|१|४० ) ह० ज० । गु० अर् ।
[ सस्मर्थ ] 'स्मृ चिन्तायाम्' (१८) स्मृ । परोक्षा थव् । 'द्विर्धातुः परोक्षा०' (४।१।१) द्विः । 'व्यञ्जन०' (४।१।४४) अनादिव्यञ्जनलोपः । ‘ऋतोऽत्' (४।१।३८) ॠ → अ० । 'संयोगादृदर्तेः' (४।३।९) गु० अर् ।
[दध्वर्थ] 'ध्वं कौटिल्ये' (२३) ध्वृ । परोक्षा थव् । 'द्विर्धातुः परोक्षा ङे० ' ( ४ 1919) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ऋतोऽत्' (४।१।३८ ) ऋ० अ० । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) ध० द० । 'संयोगादृदर्त्तेः' (४।३।९) गु० अर् ।
[बिभेदिथ] पूर्ववत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org