________________
अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥
३१३
[संचस्कर्थ, संचस्करिथ] 'डुकंग् करणे' (८८८) कृ, सम्पूर्व० । ' संपरेः कृगः स्सट् (४|४|११ ) सट् स् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'अघोषे शिटः ' ( ४।१।४५) सलुक् । 'ऋतोऽत्' (४।१।३८) ऋ० डश्च- ञ्' (४।१।४६) क० च० । अनेन वा इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् ।
अ० । 'क
[ ययाथ, ययिथ] 'यांक् प्रापणे' (१०६२) या । परोक्षा थव् । द्विर्धातुः परोक्षा- डे० ' ( ४1919 ) द्विः । 'ह्रस्वः' (४।१।३९) ह्रस्वत् । अनेन वा इट् । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलुक् ।
[चिचेथ, चिचयिथ] 'चिंग्ट् चयने ' (१२९०) चि । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे० ' ( ४।१।१) द्विः । अनेन वा इट् । ‘नामिनो गुणोऽक्ङिति ' ( ४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[निनेथ, निनयिथ] 'ग् प्रापणे' ( ८८४) णी । 'पाठे धात्वादेर्णो नः' (२। ३ ।९७ ) नी । परोक्षा थव् । 'द्विर्धातुः परोक्षा- डे० ' (४।१।१) द्विः । ' ह्रस्वः' ( ४1१1३९) ह्रस्वः । अनेन वा इट् । 'नामिनो गुणोऽक्डिति' ( ४ | ३ | १) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् ।
[जुहोथ, जुहविथ ] 'हुंक् दाना-ऽदनयो: ' (११३०) हु । परोक्षा थव् । 'द्विर्धातुः परोक्षा- ङे० ' ( ४।१।१) द्विः । 'गहोर्ज:' ( ४|१|४०) ह० ज० । अनेन वा इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४ ) अव् ।
[ शशक्थ, शेकिथ ] 'शक्लृट् शक्तौ' (१३००) शक् । परोक्षा थव् । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१1१ ) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४/१/४४) अनादिव्यञ्जनलोपः । अनेन वा इट् । 'अनादेशाऽऽदेरेकव्यञ्जनमध्येऽतः ' ( ४।१।२४) अकारस्य ए ।
[पपक्थ, पेचिथ] 'डुपचष् पाके' (८९२) पच् । परोक्षा थव् । 'द्विर्धातुः परोक्षा- डे० ' ( ४|१|१) द्विः । ' व्यञ्जनस्याऽनादेर्लुक्’ (४।१।४४) अनादिव्यञ्जनलोपः । अनेन वा इट् । 'अनादेशाऽऽदेरेकव्यञ्जनमध्येऽतः' (४।१।२४) अकारस्य ए । 'च-जः कगम्' (२।१।८६) च० क० ।
[इयष्ठ, इयजिथ] 'यर्जी देवपूजा सङ्गतिकरण- दानेषु' (९९१) यज् । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) द्विः । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'यजादि-वश् वचः सस्वरान्तस्था य्वृत्' (४।१।७२) य० इ० । अनेन वा इट् । 'यज-सृज- मृज-राज-भ्राज० ' (२।१।८७) ज० ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६० ) थ० ठ० ।
[बिभेदिथ] 'भिपी विदारणे' (१४७७) भिद् । परोक्षा थव् । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्विः । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ' द्वितीय-तुर्ययोः पूर्वौ' (४|१|४२) भ०व० । 'स्क्रसृ-वृ-भृ-स्तु-द्रु-श्रुस्रोर्व्यञ्जनादेः परोक्षायाः' (४|४|८१ ) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए ।
[लुलविथ ] 'लूग्श् छेदने' (१५१९) लू । परोक्षा थव् । 'द्विर्धातुः परोक्षा- डे प्राक् ० ' ( ४|१|१) द्विः । ' ह्रस्वः ' (४।१।३९) ह्रस्वः । ‘स्क्रसृ-वृ-भृ-स्तु०' (४।४१८१) इट् । 'नामिनो गुणोऽक्ङिति ' ( ४ | ३ |१) गु० ओ । 'ओदौतोऽवाव्’ (१।२।२४) अव् ।
[विदुधविथ] 'धूग्ट् कम्पने ' (१२९१) धू, विपूर्व० । परोक्षा थव् । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्विः । 'द्वितीयतुर्ययो: पूर्वी' (४।१।४२) ध० द० । 'स्क्रसृ-वृ-भृ-स्तु०' (४।४।८१) इट् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ।
बृहद्वृत्तौ विवेथ - विवयिथ ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org