SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३१२ [हृषेः ] हृषि पञ्चमी इसि । [केशलोमविस्मयप्रतिघाते] केशाश्च लोमानि च विस्मयश्च प्रतिघातश्च = केशलोमविस्मयप्रतिघातम्, तस्मिन् । [हृष्टाः केशाः, हृषिताः केशाः ] 'हषू अलीके' (५३५) हृप् । तुषं (१२१३)- 'हृषच् तुष्टी' (१२१४) हृष् । हर्षन्ति । हृष्यन्तीत्येवंशीलाः । 'ज्ञानेच्छाऽर्चाऽर्थ-जीच्छील्यादिभ्यः क्तः' (५१२।९२) प्र० त । प्रथमा जस् । केश प्रथमा जस् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । हृषेः केश-लोम-विस्मय- प्रतिघाते ||४|४|७६ ॥ [हृष्टानि, हृषितानि लोमानि ] हृष्यते स्म । क्तप्र० त । हर्षति स्म । क्तप्र० । जस् । लोमन् जस् । [हृष्टं, हृषितं लोमभिः ] हृष्यते स्म = हृष्टम् । क्तप्र० → त । [हृष्ट:, हृषितश्चैत्रः ] हृष्यति स्म । 'गत्यर्था - ऽकर्मक-पिव-भुजेः' (५19199) क्तप्र० । चि ( चैत्र प्रथमा सि । विस्मित इत्यर्थः । [हष्टा, हृषिता दन्ताः ] हृष्यन्ति स्म । आम्लादिना हृष्टाः → त । दन्त प्रथमा जस् । प्रतिहता इत्यर्थः ॥छ । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । तस्मात् । अपचितः || ४|४|७७॥ [ अपचितः ] अपचित अखण्डमिदम् । प्रथमा सि । 'सो रुः ' (२।१।७२ ) स०र० । [अपचितः, अपचायितः] ‘चायृग् पूजा- निशामनयोः' (९१७) चाय्, अपपूर्व० । अपचाय्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० त । अनेन इडभावः चाय्० चि० आदेशो वा । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् द्वितीये ॥ छ ॥ हृषिताः । ' गत्यर्था - ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० सृजि-दृशि - स्कृ- स्वराऽत्वतस्तृज्नित्याऽनिटस्थवः ॥ ४४ ॥७८॥ [सृजिदृशिस्कृस्वराऽत्वतः ] अतु विद्यते येषां तेऽत्वतः, सृजिश्च दृशिश्च स्कृश्च स्वरश्च अत्वतश्च = सृजिदृशिस्कृस्वराऽत्वत्, तस्मात् । [तृनित्याऽनिटः ] न विद्यते इट् यस्य तत् = अनिट् नित्यमनिट् = नित्यानिट्, तृचि नित्याऽनिट् = तृज्नित्याऽनिट्, Jain Education International [थवः ] थव् षष्ठी डस् । [सस्रष्ठ, ससर्जिथ] 'सृजीं(जं) त् विसर्गे' (१३४९) सृज् । परोक्षा थव् । 'द्विर्धातुः परोक्षा-ङे प्राक् तु स्वरे स्वरविधेः’ (४।१1१) "सृज 'द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'अ सृजि-दृशोऽकिति' (४|४|१११ ) अकारागमः । अनेन वा इट । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'यज- सृज- मृज- राज० ' (२।१।८७) ज० ष० । ' तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां०' (१।३।६० ) थ० ठ० । [दष्ठ, ददर्शिथ ] 'दृशं प्रेक्षणे' (४९५) दृश् । परोक्षा थव् । द्विर्धातुः परोक्षा-डे० ' (४।१1१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'अः सृजि-दृशोऽकिति' (४|४|१११) अकारागमः । रत्वम् । अनेन वा इट् । 'लंघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'यज- सृज-मृज-राज० ' (२।१।८७) श० ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) थ० ठ० । For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy