________________
३०६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दण्डिका ।
हनयोर्लोपश्च निपात्यते ।
[परिद्रढय्य गतः] दृह, परिपूर्व० । परिदृढमाचष्टे । 'णिजबहुलं नाम्नः कृगादिषु' (३।४।४२) णिच्प्र० । 'त्रन्त्यस्वरादे:' (७।४।४३) अन्त्यस्वरादिलोपः । 'पृथु-मृदु-भृश-कृश-दृढ-परिवृढस्य ऋतो रः' (७।४।३९) ऋतो र० । परिद्रढयनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । लघोर्यपि' (४।३।८६) णिगो(जो)ऽय ।
[पारिदृढी कन्या] परिदृढ । परिदृढस्याऽपत्यं स्त्री । 'अत इञ्' (६।१।३१) इप्र० →इ । 'वृद्धिः स्वरेष्वादेठिणति तद्धिते' (७।४।१) वृ० आ । 'नुर्जातः' (२१४७२) डीप्र० ।
[दृहितम्] ब(द)हणं = दृहितम् । ‘क्लीबे क्तः' (५।३।१२३) क्तप्र० → त । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् ।
[इंहितम (द)हणं = इंहितम् । 'क्लीबे क्तः' (५।३।१२३) क्तप्र० →त । 'स्ताद्यशितोऽत्रोणादेरिट' (४१४३२) इट् ।।छ।।
क्षुब्ध-विरिब्ध-स्वान्त-ध्वान्त-लग्न-म्लिष्ट-फाण्ट-बाढ-परिवढं
मन्थ-स्वर-मनस्-तमस्-सक्ताऽस्पष्टाऽनायास-भृश-प्रभो ।।४।४।७०।। [क्षुब्धविरिब्धस्वान्तध्वान्तलग्नम्लिष्टफाण्टबाढपरिवढम] क्षुब्धश्च विरिब्धश्च स्वान्तश्च ध्वान्तश्च लग्नश्चम्लिष्टं च फाण्टश्च बाढश्च परिवृढश्च = क्षुब्धविरिब्धस्वान्तध्वान्तलग्नम्लिष्टफाण्टबाढपरिवृढम् ।
[मन्थस्वरमनस्तमस्सक्ताऽस्पष्टाऽनायासभृशप्रभौ] मन्थश्च स्वरश्च मनश्च तमश्च सक्तश्च अस्पष्टश्च अनायासश्च भृशश्च प्रभुश्च = मन्थस्वरमनस्तमस्सक्ताऽस्पष्टाऽनायासभृशप्रभु, तस्मिन् ।
[क्षुब्धः समुद्रः, क्षुब्धं वल्लवेन] 'क्षुभश् सञ्चलने' (१५५३) क्षुभ् । क्षुभ्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । क्षुभ्यते स्म = क्षुब्धम् । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० → त । अनेन निपातः । मथित इति मथ्यमानः सन् क्षोभं गत इति वार्थः । विलोडनं कृतमित्यर्थः । शोभैव मन्दिरक्षुभितमित्यर्थः । अत्र मतान्तराभिप्रायेणैव न निपातनम् ।
[विरिब्धः स्वरः, विरिभितम्] 'रिभि इति सौत्रो धातुः' विपूर्व० । विरिभ्यते स्म । यद्वा 'रेभृङ् शब्दे' (७७५) रेभ् । विरेभ्यते स्म । क्तप्र० । अतो निपातनात् इत्वम् । अन्यत्र 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'अधश्चतुर्थात् तथोर्धः' (२११७९) त० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) भ० → ब० ।
[स्वान्तं मनः, स्वनितो मृदङ्गः] 'स्वन शब्दे' (३२७) स्वन् । स्वन्यते स्म । क्तप्र० । 'अहन्पञ्चमस्य क्वि-विङति' (४।१।१०७) दीर्घः । अन्यत्र 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् ।
[ध्वान्तं तमः, ध्वनितं तमसा] 'ध्वन शब्दे' (३२५) ध्वन् । ध्वन्यते स्म । क्तप्र० । 'अहन्पञ्चमस्य क्वि-क्डिति' (४।१।१०७) दीर्घः । अन्यत्र 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् ।
__ [लग्नं सक्तम्, लगितमन्यत्] 'लगे सङ्गे (१०२४) लग् । लगति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । अन्यत्र इट् ।
[म्लिष्टमस्पष्टम्, म्लेच्छितमन्यत्] ‘म्लेछ अव्यक्तायां वाचि' (११९) म्लेछ् । म्लेच्छति स्म । 'गत्यर्था-ऽकर्मक-पिब
ॐ बृहद्वृत्तौ - मध्यमवृतौ - परिद्रढनं पूर्वम् ।
P.
म्लिष्टश्च ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org