________________
३०७
अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ भुजेः' (५।१।११) क्तप्र० → त । इत्वमपि निपातनात् । अन्यत्र इट् ।
[फाण्टमनायाससाध्यम्] 'फण गतौ' (१०३७) फण् । फण्यते स्म । क्तप्र० → त । 'अहन्पञ्चमस्य क्वि-क्डिति' (४११०७) दीर्घः । 'तवर्गस्य श्चवर्ग०' (११३१६०) त० → ट० । सि-अम् । अनायाससाध्यं चेत् ।
[वाढं भृशम] वेहङ (८६६) - जेहङ (८६७) - 'वाहक प्रयत्ने' (८६८) वाह । वाहाते स्म । क्तप्र० । भृशं चेत् । क्रियाविशेषणमेवैतत् ।
[परिवृढः प्रभुः] दृह (५५६) - दृहु (५५७) - 'वृह वृद्धौ' (५५८) वृह्, परिपूर्व० । परिवर्हति स्म । यद्वा 'वृहु शब्दे च' (५६०) वृह । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । परिवृंहति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१११) क्तप्र० → त । प्रभुश्चेत्, हकार-नलोपे ढत्वे च निपातनात् ।
[परिखढय्य गतः] परिवृढ । परिवृढमाचष्टे । 'णिज्बहुलं नाम्नः कृगादिषु' (३।४।४२) णिच्प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अलोपः । णिजि 'पृथु-मृदु-भृश-कृश-दृढ-परिवृढस्य ऋतो रः' (७।४।३९) ऋतो र० । परिवढयनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'लघोर्यपि' (४।३।८६) णिगो(जो)ऽय् ।
[पारिवृढी कन्या] परिवृढस्याऽपत्यम् । ‘अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० आ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । 'नुर्जातेः' (२।४।७२) डी →ई छ।।
आदितः ॥४।४७१॥
[आदितः] आत् इदनुबन्धो यस्याऽसौ आदित्, तस्मात् ।
[मिन्नः] ‘जिमिदाच् स्नेहने' (११८०) मिद् । मिद्यते । 'ज्ञानेच्छाऽर्चाऽर्थ-जीच्छील्यादिभ्यः क्तः' (५।२।९२) क्तप्र० →त । 'रदादमूर्च्छ-मदः क्तयोर्दस्य च' (४।२।६९) द-त० → न० ।
[मिन्नवान् मिद् । मेद्यति स्म । ‘क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । ‘रदादमूर्छ-मदः०' (४।२।६९) द-त० → न० ।
[श्चिण्णः] 'जिक्ष्विदाच् मोचने च' (११८१) क्ष्विद् । विद्यते स्म । 'ज्ञानेच्छाऽर्चाऽर्थ-जीच्छील्यादिभ्यः क्तः' (५।२।९२) क्तप्र० →त । 'रदादमूर्छ-मद:०' (४।२।६९) द-त० → न० । '-वर्णान्नो ण०' (२३६३) न० → ण० ।
[विण्णवान्] क्ष्विद् । विद्यति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । ‘रदादमूर्छ०' (४।२।६९) द-त० → न० । 'र-वर्णान्नो ण०' (२।३।६३) न० →ण० ।
[स्विन्नः] 'अिष्विदा मोचने च' (९४६) विद । 'षः सोऽष्ट्यै-ष्टिव-ष्वष्कः' (२३।९८) स्विद् । स्विद्यते स्म । 'ज्ञानेच्छा०' (५।२।९२) क्तप्र० → त । ‘रदादमूर्छ-मद:०' (४।२।६९) द-त० → न० ।
[स्विन्नवान्] स्विद् । स्वेदते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । ‘रदादमूर्छ-मदः०' (४।२।६९) द-त० → न० ।
[श्वित्तः] 'श्चिताङ् वर्णे' (९४३) श्चित् । श्वित्यते स्म । क्तप्र० → त ।
3 मध्यमवृत्तौ - परिवृढनं पूर्वम् ।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org