SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य द्वितीयः पादः ॥ [रेपयति ] 'च स्रवणे' ( १२४७) री । 'रींश् गति-रेषणयोः ' (१५२५) री । रीयमाणं रिणन्तं वा प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्’ (३।४।२० ) णिग्प्र० । अनेन पोऽन्तः । ' पुस्- पौ' ( ४ | ३ | ३) गु० ए । [लेपयति ] 'ब्लींश् वरणे' (१५२७) व्ली । क्लिनन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । अनेन पोऽन्तः । ' पुस्- पौ' (४।३।३) गु० ए । १५ [ह्रेपयति] ‘ह्रींक् लज्जायाम्’ (११३३) ही । जिह्नियतं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । अनेन पोऽन्तः । ' पुस्- पौ' (४।३।३) गु० ए । [क्नोपयति] 'क्नूयैङ् शब्दोन्दनयोः' (८०२) क्नूय् । क्नूयमानं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । अनेन पोऽन्तः । 'य्वोः प्वय्व्यञ्जने लुक्' ( ४|४|१२१ ) यलुक् । 'पुस्- पौ' (४।३।३) गु० ओ । [क्ष्मापयति ] 'क्ष्मायैङ् विधूनने' (८०३) क्ष्माय् । क्ष्मायमाणं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे गिग्' ( ३।४।२० ) णिग्प्र० । अनेन पोऽन्तः । 'य्वोः प्वय्व्यञ्जने लुक्' (४|४|१२१) यलुक् । [दापयति] 'डुदांग्क् दाने' (११३८ ) दा । ददतं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । अनेन पोऽन्तः । [धापयति ] 'डुधांग्क् धारणे च ' (११३८) धा । दधतं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । अनेन पोऽन्तः । [जापयति] 'जिं अभिभवे' (८) जि । जयन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । णौ क्रीजीङ' (४/२/१०) आत्त्वम् । अनेन पोऽन्तः । [क्रापयति] 'डुक्रींग्श् द्रव्यविनिमये' (१५०८) क्री । क्रीणन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'णौ क्री-जीङ' (४।२।१०) आत्त्वम् । अनेन पोऽन्तः । [अध्यापयति ] 'इंक् अध्ययने' (११०४) इ, अधिपूर्व० । अधीयानं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । 'णौ क्री - जीङ: ' ( ४।२।१० ) आत्त्वम् । अनेन पोऽन्तः । [अदीदपत्] ददतं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । अनेन पोऽन्तः । अद्यतनी दि→ त् । 'णि-श्रि-दु-सु-कमः कर्त्तरि ङः' (३|४|५८) प्र० अ । 'उपान्त्यस्याऽसमानलोपि ० ' ( ४।२।३५) ह्रस्वः । 'द्विर्धातुः परोक्षाङे०' (४।१।१) द्विः । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'असमानलोपे०' (४।१।६३) इ । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् । बहुवचनं व्याप्त्यर्थम् तेन नाम्नोऽपि - [सत्यापयति ] सत्य । सत्यमाचष्टे । णिज्बहुलं नाम्नः कृगादिषु' ( ३।४।४२) णिच्प्र० इ । 'सत्या-ऽर्थ-वेदस्याः ' ( ३ | ४ |४४) आ । अनेन पोऽन्तः । [अर्थापयति] अर्थ | अर्थमाचष्टे । 'णिज्बहुलं ० ' ( ३।४।४२) णिज् (च्) प्र० इ । 'सत्या-ऽर्थ-वेदस्याः' ( ३ | ४|४४) आ । अनेन पोऽन्तः । [वेदापयति] वेद । वेदमाचष्टे । 'णिज्बहुलं०' ( ३।४१४२) णिज् (च्) प्र० इ । 'सत्या - ऽर्थ वेदस्याः ' ( ३ |४ |४४ ) आ । अनेन पोऽन्तः । Jain Education Intemational. For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy