________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[अपीपयत्] 'पैं शोषणे' (४७) पै । 'आत् सन्ध्यक्षरस्य ' ( ४।२1१) पा । पायन्तं प्रायुक्त । प्रयोक्तृव्यापारे णिग् ( ३।४।२०) णिग्प्र० । अनेन योऽन्तः । अद्यतनी दित् । 'णि श्रिद्रु-सु०' ( ३।४।५८) डप्र० । ' उपान्त्यस्याऽसमानलोपि०' (४।२।३५) मूलधातोर्हस्वः । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) “पाय द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।२।४४) अनादिव्यञ्जनलोपः । ‘ह्रस्वः' (४।१।३९) ह्रस्वः । 'असमानलोपे० ' ( ४|१।६३) इ । 'लघोर्दीर्घो ०' (४।१।६४) दीर्घः । ' णेरनिटि' (४।३।८३) णिग्लोपः ।
१४
[ अशीशयत् ] शोंच् तक्षणे ( ११४७) शो । 'आत् सन्ध्यक्षरस्य ' ( ४।२।१) शा । श्यन्तं प्रायुक्त | 'प्रयोक्तृव्यापारे ग्'ि ( ३।४।२०) णिग्प्र० । अनेन योऽन्तः । अद्यतनी दित् । 'णि-श्रि-दु-सु०' (३।४।५८) डप० । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३५) मूलधातोर्ह्रस्वः । द्विर्धातुः परोक्षा-डे० ' (४।१।१) “शाय द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४|१|४४ ) अनादिव्यञ्जनलोपः । ' ह्रस्व:' ( ४|१|३९ ) ह्रस्वः । 'असमानलोपे' सन्वल्लघुनि डे' (४।१।६३) इ । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
पिबतेस्तु 'ङे पिवः पीप्य्' (४|१|३३ ) इत्यनेन पीप्यदिति भवति ।
[क्राययति] 'डुक्रींग्श् द्रव्यविनिमये' (१५०८) क्री । क्रीणन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'णौ क्री-जीङः' (४।२।१०) ई० आ० । अनेन योऽन्तः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । 'नामिनो गुणोऽक्ति' (४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । अत्र लाक्षणिक आकारः । पोरपवादो योगः ||छ ||
तेषाम् ।
अति-री- व्ली-ही-क्नूय - क्ष्माय्यातां पुः || ४ | २|२१|
[अर्त्तिरीव्लीह्रीक्नूयिक्ष्माय्याताम्] अर्त्तिश्च रीश्च व्लीश्च ह्रीश्च क्नूयिश्च क्ष्मायिश्च आच्च = अर्त्तिरीव्लीह्रीक्नूयिक्ष्माय्यातः,
[पुः] पु प्रथमा सि । 'सो रुः' (२।१।७२ ) स०र० ।
[अर्पयति] 'ऋक् गतौ' (११३५) ऋ । 'ऋ प्रापणे च' (२६) ऋ । इयन्तं ऋच्छन्तं वा प्रयुङ्क्ते । प्रयोक्तृव्यापारे ( ३।४।२०) प्रि० । अनेन पोऽन्तः । ' पुस्- पौ' (४।३।३) गु० अर् । वर्त्त० तिव् । 'कर्त्तर्यनदृभ्यः शब्' (३।४।७१ ) शव् । ‘नामिनो गुणोऽक्डिति' ( ४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
तिनिर्देशो यङ्लुनिवृत्त्यर्थः
[अरारयति, अरियारयति] ऋ । भृशं पुनः पुनर्वा ऋच्छति । भृशं पुनः पुनर्वा इयर्ति । 'अट्यर्त्ति सूत्रि - मूत्रि - सूच्यशूर्णोः' ( ३।४।१० ) य० । प्रथमे 'क्य याऽऽशीर्ये' (४।३।१० ) गु० अर् । 'लोकात्' (१1१1३) "अ" पाठउ विश्लेषिय | ‘स्वराऽऽदेर्द्वितीयः’ (४।१।४) "र्य द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४ ) यलोपः । 'आ-गुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । 'सन्-यङश्च' ( ४।१।३) “ऋ'द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । ‘रि-रौ च लुपि' (४।१।५६) "रि" आगमः । ' पूर्वस्याऽस्वे स्वरे योरियुक्' (४।१।३७ ) इय् । अरर्ति कश्चित्, तं आरतमन्यः प्रयुङ्क्ते । अरियर्ति कश्चित् तं अरियूतमन्यः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'नामिनोऽकलि-हले ः ' ( ४|३|५१) वृद्धिः आर् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्’ (३।४।७१.) शव् । ‘नामिनो गुणोऽक्डिति' ( ४ | ३|१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
मध्यमवृत्ति-वृहद्वृत्ति-क्रियारत्नसमुच्चयेषु क्रापयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org