________________
अथ चतुर्थाध्यायस्य द्वितीयः पादः ।।
'असमानलोपे०' (४।१।६३) इ । 'लघोर्दीर्घोऽस्वरादेः' (४११६४) दीर्घः । 'णेरनिटि' (४१३४८३) णिगलोपः । 'अडू धातोरादि०' (४।४।२९) अट् ।
[केशानावापयति] केश द्वितीया शस् । 4 (४७) - ‘ओवै शोषणे' (४८) वै । 'आत् सन्ध्यक्षरस्य' (४।२।१) वा, आड़पूर्व० । आवायन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'अर्त्ति-री-व्ली-ही०' (४।२।२१) पोऽन्तः । वर्त्त तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । शोषयतीत्यर्थः ।
वजिनैव सिद्धे वाते रूपान्तरनिवृत्त्यर्थं वचनम् ॥छ।।
पा-शा-छा-सा-वे-व्या-हो यः ।।४।२।२०।।
[पाशाछासावेव्याह्नः] पाश्च शाश्च छाश्च साश्च वेश्च व्याश्च हाश्च = तत्, तस्य, षष्ठी डस् । 'लुगाऽऽतोऽनापः' (२।११०७) आलुक् ।
[यः] य प्रथमा सि ।
[पाययति] 'पा पाने' (२) पा । 'पैं शोषणे' (४७) पै । 'आत् सन्ध्यक्षरस्य' (४।२।१) आ = पा । पिवन्तं पायन्तं वा प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । अनेन योऽन्तः । पातेस्तु लकार उक्तः ।
[शाययति] 'शोंच तक्षणे' (११४७) शो । 'आत् सन्ध्यक्षरस्य' (४।२।१) आ = शा । श्यन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । अनेन योऽन्तः ।।
[अवच्छाययति] दो (११४८) - ‘छोंच् छेदने' (११४९) छो । 'आत् सन्ध्यक्षरस्य' (४।२।१) छा, अवपूर्व० । अवच्छयन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिम्प० । अनेन योऽन्तः ।
[अवसाययति] 'षोंच् अन्तकर्मणि' (११५०) षो । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सो । 'सैं क्षये' (४४) सै । 'आत् सन्ध्यक्षरस्य' (४।२११) आ = सा, अवपूर्व० । अवस्यन्तं अवसायन्तं वा प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग' (३।४।२०) णिग्प्र० । अनेन योऽन्तः ।।
__ [वाययति] ‘वेंग् तन्तुसन्ताने' (९९२) वे । 'आत् सन्ध्यक्षरस्य' (४।२।१) वा । वयन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । अनेन योऽन्तः ।
वे इत्यनात्वेन निर्देशो 'वांक गति-गन्धनयोः' (१०६३) वा, 4 (४७) . 'ओवै शोषणे' (४८) वै इत्यनयोर्निवृत्त्यर्थः, तयोरुदाहरणं दर्शयति ।
[वापयति] वान्तं वायन्तं वा प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'अर्त्ति-री-ब्ली-ही-क्नूयि०' (४।२।२१) पोऽन्तः ।
[व्याययति] 'व्यंग् संवरणे' (९९३) व्ये । 'आत् सन्ध्यक्षरस्य' (४।२।१) व्या । व्ययन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । अनेन योऽन्तः ।
हाययति] ‘हेंग स्पर्धा-शब्दयोः' (९९४) हे । 'आत् सन्ध्यक्षरस्य' (४२११) हा । हयन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग् (३।४।२०) णिगप्र० । अनेन योऽन्तः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org