________________
१२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
NA
‘णेरनिटि' (४।३।८३) णिग्लोपः । ‘अड् धातोरादि०' (४।४।२९) अट् ।
अनुबन्धनिर्देशो यड्लुबनिवृत्त्यर्थः ।
[दोधावयति धू । भृशं पुनः पुनर्वा धु(धू)नोति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यङ्प० → य । 'सन्-यडश्च' (४।१।३) "धू''द्विः । 'हस्वः' (४।१।३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) धु० → दु० । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । दोध्वन्तं(दोधुवतं) प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय ।
पेप्राययति प्री । भृशं पुनः पुनर्वा प्रीणाति । 'व्यञ्जनादेरेकस्वराद०' (३।४।९) यम० → य । 'सन-यडश्च' (४।१३) “प्री'"द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४|११४४) अनादिव्यञ्जनलोपः । 'इस्वः' (४१३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४११४८) गु० ए । 'बहुलं लुप्' (३।४।१४) यड्लुप् । पेप्रियन्तं (यतं) प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः ऐ । 'एदैतोऽयाय्' (११२।२३) आय् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
'धूत् विधूनने' (१४३०) धू, 'प्रीच् प्रीतौ' (१२५३) प्री इति निवृत्त्यर्थश्च
[धावयति] 'धूत विधूनने' (१४३०) धू । धुवन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'नामिनोऽकलि-हलेः' (४१३५१) वृद्धि: औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[प्राययति] 'प्रींच प्रीतौ' (१२५३) प्री । प्रि(प्री)यमाणं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'नामिनोऽकलि-हलेः' (४१३५१) वृद्धिः ऐ । 'एदैतोऽयाय' (११२।२३) आय । वर्त० तिव् । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।छ।।
__ वो विधूनने जः ।।४।२।१९।। [वः] वा षष्ठी डस् । 'लुगाऽऽतोऽनापः' (२।१।१०७) आलोपः । [विधूनने] विधून्यते = विधूननम्, तस्मिन् । [जः] ज प्रथमा सि ।
[पक्षकेण उपवाजयति] पक्ष । कुत्सितः पक्षः = पक्षकः । 'कुत्सिता-ऽल्पा-ऽज्ञाते' (७।३।३३) कपप्र० →क, तेन । 'वांक गति-गन्धनयोः' (१०६३) वा, उपपूर्व० । उपवान्तं प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । अनेन जोऽन्तः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[प्रवाजयति प्रवान्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । अनेन जोऽन्तः । शेषं पूर्ववत् ।
[अवीवजत वान्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग' (३।४।२०) णिगप्र० । अनेन जोऽन्तः । अद्यतनी दि→त् । 'णि-श्रि-द्रु-सु-कमः कर्तरि ङः' (३।४।५८) डा० । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) “वाज्"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'हस्वः' (४।१।३९) ह्रस्वः । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३५) मूलधातोईस्वः ।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org