________________
अथ चतुर्थाध्यायस्य द्वितीयः पादः ।।
११
[पालयति] 'पांक् रक्षणे' (१०६७) पा । पान्तं प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । अनेन लोऽन्तः । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । ‘एदेतोऽयाय' (१।२।२३) अय् ।
[अपीपलत्] पान्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । अनेन लोऽन्तः । अद्यतनी दि →तु । 'णि-श्रि-द्रु-सु-कमः कर्त्तरि ङः' (३।४।५८) डग्र० → अ । 'द्विर्धातुः परोक्षा-डे प्राक्' (४।१।१) “पाल्'द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'हस्वः' (४।१।३९) ह्रस्वः । 'असमानलोपे सन्वल्लधुनि डे' (४१।६३) इ । 'उपान्त्यस्याऽसमानलोपि-शास्वृदितो डे' (४।२।३५) ह्रस्वः । 'लघोर्दीर्घोऽस्वरादे:' (४११६४) दीर्घः । ‘णेरनिटि' (४1३।८३) णिगलोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[पाययति] 'पां पाने' (२) पा । 'पैं शोषणे' (४७) पै । 'आत् सन्ध्यक्षरस्य' (४।२।१) पा । पिबन्तं पायन्तं वा प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'पा-शा-छा-सा-वे-व्या-हो यः' (४।२।२०) योऽन्तः । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[पापाययति] 'पांक रक्षणे' (१०६७) पा । भृशं पुनः पुनर्वा पाति । 'व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यङ् वा' (३।४।९) यम० । 'सन्-यडश्च' (४।१।३) “पा''द्विः । ‘ह्रस्वः' (४।१।३९) ह्रस्वः । ‘आ-गुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । पापान्तं(पापतं) प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । 'पा-शा-छा-सावे-व्या-हो-यः' (४।२।२०) योऽन्तः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।।छ।।
धूग-प्रीगोनः ।।४।२१८॥
[धूम्प्रीगोः] धूम् च प्रीग् च = धूम्प्रीगौ, तयोः = धूम्प्रीगोः । षष्ठी ओस् । [नः] न प्रथमा सि ।
[धूनयति] 'धूग्ट् कम्पने' (१२९१) धू । 'धूग्श् कम्पने' (१५२०) धू । 'धूग्ण् कम्पने' (१९४५) धू । धून्वन्तं धून्वानं वा, धुनन्तं धुनानं वा, धूनयन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० → इ । अनेन नोऽन्तः । वर्त० तिव् ।
[अदूधुनत्] धू । अधावीत् कश्चित् तं दुधु(धू)वान्सं अन्यः प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र०' । अनेन नोऽन्तः । “णि-श्रि-द्रु-सु-कमः कर्तरि ङः' (३।४।५८) प्र० । 'द्विर्धातुः परोक्षा-डे० ' (४११1१) द्वि: । हूस्वः' (४1१।३९) हूस्वः । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) धु० → दु० । 'उपान्त्यस्याऽसमानलोपि०' (४२॥३५) ह्रस्वः । 'लघोर्दीर्घोऽस्वरादेः' (४११६४) दीर्घः । ‘णेरनिटि' (४।३८३) णिगलोपः । 'अड़ धातोरादि०' (४।४।२९) अट् ।
[प्रीणयति] 'प्रींग्श् तृप्ति-कान्त्योः ' (१५१०) प्री । प्रीणन्तं प्रीणानं वा प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'प्रीगण तर्पणे' (१९४४) प्री । 'चुरादिभ्यो णिच' (३।४।१७) णिचप्र० । अनेन नोऽन्तः । वर्त्त
[अपिप्रिणत्] प्री । अप्रैषीत् कश्चित्, तं प्रि(पि)प्रीवांसं अन्यः प्रयुक्ते (प्रायुक्त) । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । अद्यतनी दि → त् । 'णि-श्रि-द्रु-सु-कमः कर्तरि ङः' (३।४।५८) डा० । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३५) पूर्वं ह्रस्वः, ततो द्विः ।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org