________________
१०
, श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । विली(लि)नन् विलीयमानं वा प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । अनेन वा नोऽन्तः । पक्षे 'नामिनोऽकलिहलेः' (४।३।५१) वृद्धिः ऐ । 'एदैतोऽयाय्' (१।२।२३) आय् । वर्तः तिव् ।
[घृतं विलालयति, विलापयति] विली(लि)नन्तं विलीयमानं वा प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'लीड़-लिनोर्वा' (४।२।९) ई० → आ० । 'लो लः' (४/२/१६) लोऽन्तः । 'अर्ति-री-ब्ली-ही-क्नूयि०' (४।२।२१) पोऽन्तः । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
व्यलीलिनत] वि-ली । विली(लि)नन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । अनेन नोऽन्तः । अद्यतनी दि → त् । 'णि-श्रि-द्रु-सु-कमः कर्तरि ङः' (३।४।५८) डप्र० → अ । द्विः । 'उपान्त्यस्याऽसमानलोपि-शास्वृदितो डे' (४।२।३५) मूलधातोर्हस्वः । 'हस्वः' (४।१।३९) ह्रस्वः । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । 'णेरनिटि' (४।३।८३) णिग्लोपः । ‘अड् धातोरादि०' (४।४।२९) अट् ।।छ।।
लो लः ।।४।२।१६।। [लः] ला षष्ठी डस् । 'लुगाऽऽतोऽनापः' (२।१।१०७) आलुक् । [लः] ल प्रथमा सि ।
घृतं विलालयति, विलापयति] 'लांक आदाने' (१०६८) ला । ‘लींच् श्लेषणे' (१२४८) ली । ‘लींश् श्लेषणे' (१५२६) ली, विपूर्व० । विलात्(न्)-विलीयमानं-विलिनद्वा प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । 'लीङ् लिनोर्वा' (४।२।९) ई० → आ० । अनेन लोऽन्तः । 'अर्ति-री-व्ली-ही-क्नूयि०' (४।२।२१) पोऽन्तः । वर्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
घृतं व्यलीललत] विलायते विलीयते घृतं स्वयमेव, तद् घृतं विलात्(न्)-विलीयमानं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'लीङ्-लिनोर्वा' (४।२।९) ई० → आ० । अनेन लोऽन्तः । अद्यतनी दि→त् । ‘णि-श्रि-द्रु-सु०' (३।४।५८) डा० → अ । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) “लाल्"द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३५) मूलधातोर्हस्वः । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । ‘णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
जटाभिरालापयते जटा तृतीया भिस् । ली, आङ्पूर्व० । आलीयते तपस्वी, तं तपस्विनमालीयमानं जटाभिः कृत्वा गुरुः प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'लीङ्-लिनोऽर्चा-ऽभिभवे चाऽऽच्चाकर्त्तर्यपि' (३।३।९०) ई०
→ आ०, आत्मनेपदं च । 'अर्ति-री-व्ली-ही-क्नूयि०' (४।२।२१) पोऽन्तः । परैरात्मानं पूजयतीत्यर्थः ।
श्येनो वर्तिकामुल्लापयते श्येन प्रथमा सि । वर्त्तिका द्वितीया अम् । उत-ली । उल्लीयमानं उल्लीनं वा प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'ली-लिनोऽर्चा-ऽभिभवे चाऽऽच्चाकर्त्तर्यपि' (३।३।९०) आत्त्वम्-आत्मनेपदं च । 'अर्ति-री-व्ली-ही-क्नूयि०' (४।२।२१) पोऽन्तः । अभिभवतीत्यर्थः ।।छ।।
पातेः ।।४।२।१७॥
[पातेः] पाति षष्ठी डस् ।
पृथग्योगाद्वेति निवृत्तम् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org