________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका ।
[लूनः ] 'लूग्श् छेदने' (१५१९) लू । लूयते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० त । 'ऋ - ल्वादेरेषां तो नोऽप्र:' ( ४।२।६८) त० न० ।
[लूनवान्] लू । लुनाति स्म । 'क्तक्तवतू' (५।१।१७४) क्तवतुप्र० तवत् । 'ॠ ल्वादेरेषा तो नोऽप्रः' (४/२/६८)
त० न० ।
२९८
[ लूत्वा ] लू । लवनं पूर्वम् । 'प्राक्काले' ( ५ |४| ४७) क्त्वाप्र०
त्वा ।
[यविता] यु । श्वस्तनी ता । इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [लविता] लू । श्वस्तनी ता । इट् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । ‘ओदौतोऽवाव्’ (१।२।२४)
अव् ॥छ।
ग्रह- गुहश्च सनः ||४|४|५९ ।।
[ ग्रहगुहः ] ग्रहश्च गुह् च = ग्रहगुह्, तस्मात् ।
[सनः ] सन् षष्ठी डस् ।
[जिघृक्षति ] 'ग्रहीश उपादाने' (१५१७) ग्रह् । ग्रहीतुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः ' ( ३।४।२१ ) सन्प्र० । ‘सन्-यडञ्च’ (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ग- होर्ज:' ( ४।१।४०) ग० ज० । ‘सन्यस्य' (४।१।५९) इ । 'रुद - विद- मुष-ग्रह- स्वप- प्रच्छः सन् च' ( ४।३।३२ ) इत्यनेन सनः कित्त्वम्, ततो 'ग्रह - ब्रस्व-भ्रस्जप्रच्छः' (४।१।८४) य्वृत् । ' हो धुट्- पदान्ते ' (२।१।८२) ह० ढ० । 'ग-ड-द-बादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्ध्वोश्च प्रत्यये' (२।१।७७) ग० घ० । 'ष ढोः कस्सि' (२।१।६२) ढ० क० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । कषसंयोगे क्ष० ।
[जुघुक्षति] 'गुहू ( हौ) ग् संवरणे' (९३५) गुह् । गूहितुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । 'सन्-यइञ्च' (४११।३) द्विः । 'ग- होर्ज:' (४।१।४०) ग० ज० । 'हो धुट्पदान्ते' (२।१।८२) ह०७० | 'ग-ड-द-बादेश्चतुर्थान्त०' (२।१।७७) ग० घ० । 'ष ढोः कस्सि' (२।१।६२) ढ० क० । 'नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् । क षसंयोगे
क्ष० ।
-
[रुरूषति ] टुक्षु (१०८४) 'रु शब्दे' (१०८५) रु । रवितुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । 'सन्-यङश्च' (४।१।३) द्वि: । 'स्वर-हन-गमोः सनि धुटि' (४।१।१०४) दीर्घः ।
[ नुनूषति ] 'णुक् स्तुतौ' (१०८१) णु । 'पाठे धात्वादेर्णो नः' (२।३।९७) नु । नवितुमिच्छति । 'तुमर्हादिच्छायां०’ ( ३।४।२१ ) सन्प्र० । 'सन्- यङश्च' (४।१।३) द्विः । ' स्वर-हन-गमोः सनि धुटि' (४।१।१०४) दीर्घः ।
[यियविषति, युयूषति] 'युक् मिश्रणे' (१०८०) यु । यवितुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । 'सन्यङश्च' (४।१।३) द्विः । ' इवृध-भ्रस्ज- दम्भ०' ( ४/४/४७) विकल्पेन इट् । 'नामिनो गुणोऽक्ङिति ' ( ४|३|१) गु० ओ । ‘ओदौतोऽवाव्’ (१।२।२४) अव् । 'ओर्जाऽन्तस्था - पवर्गेऽवर्णे' (४।१।६०) उकारस्य इत्वम् । द्वितीये 'स्वर-हन-गमोः सनि धुटि' (४|१|१०४) दीर्घः । 'नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् ।
[ जुगूहिषन् मत्तगजोऽभ्यधावत् ] गुह् । गूहितुमिच्छति । 'तुमर्हादिच्छायां ० ' ( ३।४।२१) सन्प्र० । ‘सन्-यडश्च’ (४।१।३) द्विः । ‘ग-होर्जः' (४।१।४०) ग० ज० । मतान्तरे 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'लघोरुपान्त्यस्य' वृहद्वृत्तौ तुतूषति ।
P. लुनाति स्म । 'गत्यर्था०' (५।१।११) क्तप्र०
त ।
Jain Education Intemational.
For Private & Personal Use Only
www.jainelibrary.org