________________
अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥
२७९
[आख्याता] चक्ष्, आङ्यूर्व० । श्वस्तनी ता-तृच् वा । 'चक्षो वाचि क्शांग्-ख्यांग्' (४१४।४) ख्यांग् → ख्या ।
जेता] 'जिं अभिभवे' (८) जि । जयतीति । 'णक-तृचौ' (५।१।४८) तृचप्र० → तृ-श्वस्तनी ता वा । अनेन सर्वत्र इनिषेधः । 'नामिनो गुणोऽक्डिति' (४।३१) गु० ए ।
जेतुम्] जि । जयनाय = जेतुम् । ‘क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती' (५।३।१३) तुम्प्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए ।
[नेता] ‘णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी । नयतीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ-श्वस्तनी ता वा । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए ।
[नेतुम्] नी । नयनाय । ‘क्रियायां क्रियार्थायां तुम्' (५।३।१३) तुम्प्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए ।
[प्रवेता] 'अज क्षेपणे च' (१३९) अज्, प्रपूर्व० । प्राजतीति । ‘णक-तृचौ' (५।१।४८) तृच्प० → तृ-श्वस्तनी ता वा । 'अघक्यबलच्यजेर्वी' (४।४।२) अज्० → “वी"आदेशः । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए ।
[प्रवेतुम्] अज्, प्रपूर्व० । प्राजनाय । ‘क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । 'अघञ्क्यबलच्यजेवीं' (४।४।२) अज्० → “वी''आदेशः । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए ।
[अध्यगीष्ट] 'इंड्क् अध्ययने' (११०४) इ, अधिपूर्व० । अद्यतनी त । 'वाऽद्यतनी-क्रियातिपत्त्योर्गीङ्' (४।४।२८) इ० → गी → गी० । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'अड् धातोरादि०' (४।४।२९) अट् । ___ [शोता] इं (११) - दु (१२) - ढुं (१३) - 'शुं गतौ' (१४) शु । शवतीति । ‘णक-तृचौ' (५।१।४८) तृच्प० → त-श्वस्तनी ता वा । 'नामिनो गुणोऽक्डिति' (४१३19) गु० ओ ।
[शोतुम्] शु । शवनाय । ‘क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ ।
[स्मर्ता] 'स्मृ चिन्तायाम्' (१८) स्मृ । स्मरतीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ-श्वस्तनी ता वा । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'हादह-स्वरस्याऽनु नवा' (१।३।३१) द्वित्वम् ।।
[शक्ता] 'शक्लृट् शक्तौ' (१३००) शक् । शक्नोतीति । ‘णक-तृचौ' (५।१।४८) तृच्प० → तृ- श्वस्तनी ता वा । [शक्तुम् शक् । शकनाय । ‘क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० ।
[वक्ता] 'वचंक भाषणे' (१०९६) वच् । 'बूंग्क व्यक्तायां वाचि' (११२५) बू । 'अस्ति-ब्रुवोभू-वचावशिति' (४।४।१) बू० → “वच्" आदेशः । श्वस्तनी ता । 'च-जः क-गम्' (२।१।८६) च० → क० ।
[वक्तुम्] वच् । वचनाय । 'क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । 'च-जः क-गम्' (२।११८६) च० → क० ।
[विवेक्ता] 'विचूंपी पृथग्भावे' (१४७५) विच्, विपूर्व० । विविनक्तीति । ‘णक-तृचौ' (५।१।४८) तृच्प० → तृश्वस्तनी ता वा । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'च-जः क-गम्' (२।१।८६) च० → क० ।
[विवेक्तुम्] विच्, विपूर्व० । विवेचनाय । 'क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प० । 'लवोरुपान्त्यस्य' # बृहवृत्तौ - श्रोता-श्रोतुम् ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org