________________
२७८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
[कल्पास्मि] कृप । श्वस्तनी तास्मि ।
[कल्पास्वः] कृप । श्वस्तनी तास्वस् ।
[कल्पास्मः] कृप् । श्वस्तनी तास्मस् । सर्वत्र ‘लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'ऋ-र लु-लं कृपोऽकृपीटादिषु' (२।३।९९) र० → ल० ।
स्यन्दि-कृपोः 'धूगौदितः' (४।४।३८) इत्यनेन विकल्पेनेट्प्राप्तेऽनेन बाध्यते ।
[वर्तिता] 'वृतूङ् वर्त्तने' (९५५) वृत् । श्वस्तनी ता । 'ऊदितो वा' (४।४।४२) इट् (?) । ('स्ताद्यशितो०' (४।४।३२) इट) । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् ।
[कल्पितव्यम्] कृप् । कल्प्यते । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । 'धूगौदितः' (४।४।३८) इट् । ‘लघोरुपान्त्यस्य' (४।३।४) गु० अर । 'ऋ-र लु-लं०' (२।३।९९) र० → ल० ।
[वर्तिष्यते] 'वृतूङ् वर्त्तने' (९५५) वृत् । भविष्यन्ती स्यते । ‘स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । .. [अवर्तिष्यत] वृत् । क्रियातिपत्तिः स्यत । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[विवर्तिषते] वृत् । वर्तितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सन्-यङश्च' (४।१।३) द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'सन्यस्य' (४१५९) इ । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त० ते ।।
अग्रेतनेष्वप्युदाहरणेषु साधना पूर्ववत् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) सर्वत्र इटो विशेषः, स्यन्दि-कृपोरौदित्त्वाद्विकल्पः 'धूगौदितः' (४।४।३८) वा इट् ।
[विवृत्सित्रीयते विवृत्स सन्नन्तो मण्ड्यते । विवृत्सतीति । ‘णक-तृचौ' (५/११४८) तृचप्र० →तृ । 'स्ताद्यशितोऽत्रोणादेरिट्' (४१४१३२) इट् । 'अतः' (४१३/८२) अलुक् । विवृत्सितेवाचरति । 'क्यङ् (३।४।२६) क्यङ्म० → य । 'ऋतो री' (४।३।१०९) तृ० → त्री० । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । अत्र पूर्ववत प्रतिषेधः ।।छ।।
एकस्वरादनुस्वारेतः ।।४।४।५६।। [एकस्वरात् एकः स्वरो यस्याऽसौ एकस्वरस्तस्मात् । [अनुस्वारेतः] अनुस्वार इदनुबन्धो यस्य सः = अनुस्वारेत्, तस्मात् । [पाता] ‘पां पाने' (२) पा । श्वस्तनी ता । पिबतीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० । अनेन इण्निषेधः । [पातुम् पानाय । "क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती' (५।३।१३) तुम्प० । अनेन इण्निषेधः ।
[आक्शाता] 'चक्षिक व्यक्तायां वाचि' (११२२) चक्ष, आयूर्व० । श्वस्तनी ता-तृच् वा । 'चक्षो वाचि क्शांग्-ख्यांग्' (४।४।४) क्शांग → क्शा ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org