SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ [ उपक्रन्तासे] उप क्रम् । श्वस्तनी तासे । [ प्रकंसीष्ट] प्र-क्रम् । आशीः सीष्ट । [ उपक्रंसीष्ट ] उप-क्रम् । आशीः सीष्ट । [प्राक्रंस्त] प्र-क्रम् । अद्यतनी त । 'सिजद्यतन्याम्' ( ३ | ४|५३) सिच् । 'अड् धातोरादि०' (४।४।२९) अट् । [ उपाक्रंस्त] उप-क्रम् | अद्यतनी त । 'सिजद्यतन्याम्' ( ३|४|५३) सिच् । 'अड् धातोरादि० ' ( ४।४।२९) अट् । [प्राकंस्यत] प्र-क्रम् | क्रियातिपत्तिः स्यत । 'अड् धातोरादि०' (४।४।२९) अट् । [उपाक्रंस्यत] उप-क्रम् । क्रियातिपत्तिः स्यत । 'अड् धातोरादि० ' ( ४।४।२९) अट् । [प्रचिक्रंसते] प्रक्रमितुमिच्छति । 'तुमर्हादिच्छायां ० ' ( ३।४।२१) सन्प्र० । 'सन्-यडश्च' (४११।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ' क-डश्च- ञ्' (४।१।४६) क० च० । 'सन्यस्य' (४।१।५९) इ । वर्त्त० ते । [उपचिक्रंसते] उपक्रमितुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । 'सन्-यङश्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'क-डश्च- ञ्' (४।१।४६) क० च० । 'सन्यस्य' ( ४।१।५९) इ । वर्त्त० ते । [प्रचिक्रसिष्यते] प्रक्रमितुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'क-डश्च ञ्' (४|११४६) क० च० । 'सन्यस्य' (४।१।५९) इ । भविष्यन्ती स्यते । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । २७५ [उपचिक्रंसिष्यते] उपक्रमितुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । 'सन्-यडञ्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ' क- डञ्च ञ्' (४।१।४६) क० च० । 'सन्यस्य' (४।१।५९) इ । भविष्यन्ती स्यते । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् | [ प्रक्रमित्रीयते] प्रक्रमत इति । 'णक-तृचौ ' ( ५।१।४८) तृच्प्र० तृ । अनेन इट् । प्रक्रमितेवाचरति । 'क्यङ्' ( ३।४।२६) क्यङ्प्र०य । 'ऋतो री' (४।३।१०९) तृ० त्री० । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । पूर्ववदिड् भवति । कथं चिक्रंसया इत्यादि इडभावः । गतानुगतिक एष पाठः । [गतानुगतिकः] गतस्यानुगतं गतानुगतम्, गतानुगतमन्त्रास्ति । 'अतोऽनेकस्वरात्' (७२।६) इकप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । जिघृक्षया कृत्रिमपत्त्रिपङ्क्तेरिति तु, अविगानः पाठः । [ अविगानः ] न विद्यते विगानं = वचनीयता दोषो यत्र सः = अविगानः, निर्दोषः पाठः । छ । । = Jain Education International तुः || ४|४|५४ || [तुः] तृ षष्ठी ङस् । 'ऋतो डुर्' (१।४।३७) डुर्० उ० । डित्यन्त्यस्वरादेः ' (२।१।११४) अन्त्यस्वरादिलोपः । [क्रमिता ] क्रम् । क्रमत इति । 'णक-तृचौ ' ( ५।१।४८) तृच्प्र० तृ । क्रमत इत्येवंशीलः । तृन् शील P. क्रामतीति । बृहद्वृत्तौ क्रमित्रीयते । For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy