SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २७४ [प्रस्नोता] प्रस्नु । वस्तनी तासे । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । [ प्रस्नोताहे] प्रस्नु । वस्तनी ताहे । 'नामिनो गुणोऽक्डिति' ( ४।३।१) गु० ओ । [प्रस्नवित्रीयते] प्रस्नो (नौ) तीति । 'णक-तृचौ' (५।१।४८) तृच्प्र० तृ । अनेन इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । प्रस्नवितेवाचरति । 'क्यङ्' ( ३।४।२६) क्य०य । 'ऋतो री' (४।३।१०९) तृ० त्री० । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । आत्मनेपदस्य बहिरङ्गत्वात् तदाश्रयः प्रतिषेधो न भवति । स्नौति (ते) रिट् सिद्ध एव प्रतिषेधाभावादात्मनेपदे इनिवृत्त्यर्थं वचनम् । एवमुत्तरयोगोऽपि ॥छ || क्रमः || ४|४|५३ ॥ [क्रमः ] क्रम् पञ्चमी इसि । [क्रमिष्यति ] 'क्रमू पादविक्षेपे' (३८५) क्रम् । भविष्यन्ती स्यति । अनेन इट् । 'नाम्यन्तस्था० ' ( २ । ३ । १५ ) षत्वम् । [निरक्रमीत्] निर्-क्रम् । अद्यतनी दित् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः ' ( ४।३।६५) ईत् । अनेन इट् । ‘व्यञ्जनानामनिटि' (४।३।४५) इत्यनेन वृद्धिः प्राप्ता न श्वि-जागृ-शस-क्षण-हू-म्येदितः' (४।३।४९) इत्यनेन निषेधः । ‘इट ईति’ (४।३।७१) सिच्लुक् । 'समानानां०' (१।२1१) दीर्घः । 'अड् धातोरादि० ' ( ४।४।२९) अट् । श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । [क्रमितासि] क्रम् । श्वस्तनी तासि । अनेन इट् । [[चिक्रमिषति ] क्रम् । क्रमितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः ' ( ३।४।२१) सन्प्र० । 'सन्-यडञ्च' (४।१।३) द्विः । ‘व्यञ्जनस्याऽनादेर्लुक्' (४|१ |४४) अनादिव्यञ्जनलोपः । 'क-ङश्च ञ्' (४।१।४६) क० च० | 'सन्यस्य' (४।१।५९) इ । अनेन इट् । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् । [चिक्रमिषितुम् ] चिक्रमिषणाय । 'क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती' (५|३|१३ ) तुम्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । [ प्रक्रमितुम्] प्रक्रमणाय । 'क्रियायां क्रियार्थायां०' (५।३।१३) तुम्प्र० । अनेन इट् । [ प्रक्रमितव्यम् ] प्रक्रम्यते । 'तव्या - ऽनीयौ' (५।१।२७) तव्यप्र० । अनेन इट् । [ प्रक्रंस्यते] प्र-क्रम् । भविष्यन्ती स्यते । 'प्रोपादारम्भे' ( ३।३।५१) इत्यात्मनेपदम् । [ प्रकंस्यमानः ] प्रक्रम्यते । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२० ) आनश्प्र० ( ४|४|११४) मोऽन्तः । [ प्रक्रन्ता] प्र-क्रम् । श्वस्तनी ता । [ उपक्रन्ता] उप क्रम् । श्वस्तनी ता । [ प्रक्रन्तासे] प्र क्रम् । श्वस्तनी तासे । [उपक्रंस्यते] उप-क्रम् । भविष्यन्ती स्यते । 'प्रोपादारम्भे' ( ३।३।५१) इत्यात्मनेपदम् । [उपक्रंस्यमानः] उपक्रम्यते । 'शत्रानशावेष्यति०' (५।२।२०) आनश्प्र० आन स्य आदिः । अतो म आने' ( ४|४|११४ ) मोऽन्तः । Jain Education International For Private & Personal Use Only आन-स्य आदिः । 'अतो म आने' www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy