________________
२७६
Pawanwwwanmoommonweaanwar
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । धर्म-साधुषु' (५।२।२७) तृनुप्र० →तृ । अनेन इट् ।
[निष्कमिता] निःक्रामतीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ । अनेन इट् । [प्रक्रन्ता] प्रक्रमत इति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → त । [पराक्रन्ता] पराक्रमत इति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → त । [विक्रन्ता] विक्रमत इति । ‘णक-कृचौ' (५।१४८) तृच्प्र० →तृ । [व्यतिक्रन्ता] व्यतिक्रमत इति ।
एवमग्रेऽपि ॥छ।।
न वृद्भ्यः ||४|४॥५५॥
[न न प्रथमा सि । [वृद्भ्यः] वृत् पञ्चमी भ्यस् ।
वृत्करणं धुतादि-वृतादिसमाप्त्यर्थम् । [वर्त्यति] 'वृतूङ् वर्त्तने' (९५५) वृत् । भविष्यन्ती स्यति । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् ।
[अवय॑त्] वृत् । क्रियातिपत्तिः स्यत् । ‘लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'अड् धातोरादिय॑स्तन्यां चाऽमाडा' (४।४।२९) अट् ।
[विवृत्सति] वृत् । वर्तितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । 'सन्-यश्च' (४।१।३) द्विः । 'ऋतोऽत्' (४1१।३८) ऋ० → अ० । 'सन्यस्य' (४।१।५९) इ । वर्तः तिव् ।
[विवृत्सिता] विवृत्स । श्वस्तनी ता । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् ।
[विवृत्सितुम्] विवृत्सनाय । 'क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती' (५।३।१३) तुम्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् ।
[विवृत्सितव्यम्] विवृत्स्यते । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । [विवृत्सा] विवृत्सनम् । 'शंसि-प्रत्ययात्' (५।३।१०५) अप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । [स्यन्त्स्यति] ‘स्यन्दौङ् स्रवणे' (९५६) स्यन्द् । भविष्यन्ती स्यति । [अस्यन्त्स्यत्] स्यन्द् । क्रियातिपत्तिः स्यत् । ‘अड् धातोरादि०' (४।४।२९) अट् ।
[सिस्यन्त्सति] स्यन्दितुमिच्छति । 'तुम दिच्छायां०' (३।४।२१) सन्प्र० । 'सन्-यङश्च' (४।१।३) द्विः । 'व्यञ्जनस्याउनादेर्लुक' (४११४४) अनादिव्यञ्जनलोपः । 'सन्यस्य' (४।१।५९) इ । 'अघोषे प्रथमोऽशिटः' (४।१।४५) द० → तक।
[सिस्यन्त्सिता] सिस्यन्त्सतीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ । स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । [सिस्यन्त्सितुम्] सिस्यन्त्सनाय । ‘क्रियायां क्रियार्थायां०' (५।३।१३) तुम्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । [सिस्यन्त्सितव्यम्] सिस्यन्त्स्यते । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२० इट् ।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org