SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २७२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । [अधिजिगमिषिता शास्त्रस्य] 'इंकू अध्ययने' (११०४) इ, अधिपूर्व० । अध्येतुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सनप्र० । 'सनीडश्च' (४।४।२५) गम् । शेषं स्पष्टम् । अनेन इट । अधिजिगांसते । ‘णक-तची' (५।१।४८) तृचप्र० → तृ । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'अतः' (४।३।८२) अलुक् । [अधिजिगमिषुः] अध्येतुमिच्छुः । 'तुमर्हादिच्छायां०' (४।१।३) सन्प्र० । शेषं पूर्ववत् । [अधिजिगमिषितव्यम्] अधिजिगांस्यते । 'तव्या-ऽनीयौ' (५।११२७) तव्यप्र० । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । [गंस्यते ग्रामः] गम् । भविष्यन्ती स्यते । [संगस्यते वत्सो मात्रा गम्, सम्पूर्व० । कर्मणि भविष्यन्ती स्यते । [गंस्यमानः] गंस्यते । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) आनश्प्र० → आन-स्य आदिः । अतो म आने' (४|४|११४) मोऽन्तः । [संगस्यमानः] संगस्यते । ‘शत्रानशावेष्यति०' (५।२।२०) आनशप्र० → आन-स्य आदिः । 'अतो म आने' (४।४।११४)) मोऽन्तः । [अगस्यत] गम् । क्रियातिपत्तिः स्यत । 'अड् धातोरादि०' (४।४।२९) अट् । [समगंस्यत] गम्, सम्पूर्व० । क्रियातिपत्तिः स्यत । ‘अड् धातोरादि०' (४।४।२९) अट् । [गंसीष्ट] गम् । आशीः सीष्ट । [संगसीष्ट] गम्, सम्पूर्व० । आशीः सीष्ट । [संजिगंसते] संगन्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । शेषं पूर्ववत् । [संजिगंसमानः] संजिगंसते = संजिगसमानः । 'शत्रानशावेष्यति०' (५।२।२०) आनश्प्र० → आन । शेषं पूर्ववत् । [संजिगंसिष्यमाणः] संजिगंस मांडणी । भविष्यन्ती स्यते । संजिगस्यते = संजिगंसिष्यमाणः । 'शत्रानशावेष्यति०' (५।२।२०) आनश्प्र० → आन-स्य आदिः । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । [अधिजिगांसते] 'इंडक् अध्ययने' (११०४) इ, अधिपूर्व० । अध्येतुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सनीडश्च' (४।४।२५) गम् । 'सन्-यडश्च' (४१३) द्विः । 'ग-होर्जः' (४।१।४०) ग० → ज० । 'सन्यस्य' (४।१।५९) इ । 'स्वर-हन-गमोः सनि धुटि' (४।१।१०४) दीर्घः । [अधिजिगांसमानः] अधिजिगांसते = अधिजिगांसमानः । 'शत्रानशा०' (५।२।२०) आनश्प्र० → आन । 'अतो म आने' (४।४।११४) मोऽन्तः । [अधिजिगांस्यते] अधिजिगांस् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । [अधिजिगांसिष्यते] अधिजिगांस् । भविष्यन्ती स्यते । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट । .[अधिजिगांसिष्यमाणः] अधिजिगांसिष्यते = अधिजिगांसिष्यमाणः । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) आनश्प्र० → आन-स्य आदिः । ‘स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'अतः' (४।३।८२) अलुक् । [जिगांस्यते] 'इंएक गतौ' (१०७५) इ । एतुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सनीडश्च' (४।४।२५) गम् । 'सन्-यडश्च' (४।१३) द्विः । 'ग-होर्जः' (४।१।४०) ग० → ज० । 'सन्यस्य' (४।१।५९) इ । 'स्वर Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy