SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ २७१ Navamah 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'इट ईति' (४।३७१) सिचलुक । 'समानानां तेन०' (१।२।१) दीर्घः । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'दिर्ह-स्वरस्याऽनु नवा' (१।३।३१) द्वित्वम् । 'अड् धातोरादि०' (४।४।२९) अट् छ। गमोऽनात्मने ।।४।४१५१।। [गमः] गम् पञ्चमी इसि । [अनात्मने] आत्मार्थं पदं = आत्मनेपदम, न आत्मनेपदं = अनात्मनेपदम्, तस्मिन् । 'ते लुग्वा' (३।२।१०८) पदलोपः । गम इत्यनादेशस्याऽऽदेशस्य च ग्रहणमविशेषात् । [गमिष्यति] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - 'गम्लूं गतौ' (३९६) गम् । भविष्यन्ती स्यति । अनेन इट् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [अगमिष्यत] गम् । क्रियातिपत्तिः स्यत् । अनेन इट् । 'नाम्यन्तस्था-कवर्गात०' (२।३।१५) षत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् । जिगमिषति] गम् । गन्तुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) द्विः । 'ग-होर्जः' (४।१।४०) ग० → ज० । 'सन्यस्य' (४१११५९) इ । 'नाम्यन्तस्था०' (२।३।१५) षत्वम्, पूर्वमनेन इट् । [जिगमिषिता] जिगमिष्यतीति । ‘णक-तृचौ' (५।१।४८) तृच्प० → तृ । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । [जिगमिषितुम्] जिगमिषणाय । 'क्रियायां क्रियार्थायां०' (५।३।१३) तुम्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । [संजिगमिषिता] संजिगमिष । संजिगमिषते । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ । 'स्ताधशितोऽत्रोणादेरिट' (४।४।३२) इट् । [संजिगमिषितव्यम्] संगा(सङ्ग)स्यते । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'अतः' (४।३।८२) अलुक् । जिगमिषति ग्रामम] 'इंण्क गतौ' (१०७५) इ । एतुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प० । 'सनीडश्च (४।४।२५) “गम्" आदेशः । 'सन्-यडश्च' (४।१।३) द्विः । ‘ग-होर्जः' (४।१।४०) ग० → ज० । 'सन्यस्य' (४।१५९) इ । अनेन इट् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [जिगमिषुः] इ । एतुमिच्छुः । 'तुमर्हादिच्छायां०',(३।४।२१) सन्प्र० । 'सनीडश्च' (४।४।२५) गमु० → “गम्" आदेशः । 'सन्-यडश्च' (४।१३) द्विः । ‘ग-होर्जः' (४।१।४०) ग० → ज० । 'सन्यस्य' (४११५९) इ । 'सन्-भिक्षाऽऽशंसेरुः' (५।२।३३) उप० । 'अतः' (४।३।८२) अलुक् । [अधिजिगमिषति मातुः] 'इंक स्मरणे' (१०७४) इ, अधिपूर्व० । अध्येतुमिच्छति । 'तुमर्हादिच्छायां०' (४१३) सनप्र० । 'सनीडश्च' (४।४।२५) गम् । शेषं पूर्ववत् । [अधिजिगमिषुः] अध्येतुमिच्छुः । 'तुमर्हादिच्छायां०' (३।४।२१) सनप्र० । शेषं सुगमम् । 'सन-भिक्षा-55शंसेरुः' (५।२१३३) उप्र० । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy